________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
अन्यथा तस्यावयविद्रव्यरूपस्य चतुरश्र(स्र)स्य एकत्वाभ्युपगमक्षितिप्रसङ्गात्, प्रत्यग्देशस्य च प्राग्देशाभावोपेतत्वात्, न चैतद्युक्तम्, एकत्र विधिप्रतिषेधयोर्युगपदसंभवात् । तन्न कश्चित्परपरिकल्पितोऽवयवी घटते इति ॥६६२॥
उपसंहारमाह - इय जुत्तिविरहतो खलु बुहेण बज्झत्थसत्तमिति मोहो । संसारखयनिमित्तं वज्जेयव्वो पयत्तेणं ॥६६३॥ (इति युक्तिविरहतः खलु बुधेन बाह्यार्थसत्त्वमिति मोहः । संसारक्षयनिमित्तं वर्जयितव्यः प्रयत्नेन ॥६६३॥)
इतिः- एवं (प्र)दर्शितप्रकारेण युक्तिविरहतः खलु बाह्यार्थसत्त्वमिति-बाह्यार्थोऽस्तीति विज्ञानं मोहः, स च बुधेन संसारक्षयनिमित्तं 'संसारक्षयो मम भवतु' इत्येवमर्थं प्रयत्नेन वर्जयितव्यः, मोहस्य संसारनिबन्धनत्वात् ॥६६३।।
तथा चाह - रज्जुम्मि सप्पणाणं मोहो भयमादिया ततो दोसा । ते चेव उ तन्नाणे ण होन्ति तत्तो य सुहसिद्धी ॥६६४॥ (रज्जौ सर्पज्ञानं मोहो भयादयस्ततो दोषाः। त एव तु तज्ज्ञाने न भवन्ति ततश्च सुखसिद्धिः ॥६६४॥)
रज्जौ-दर्भादिदवरके यत् सर्पज्ञानमुपजायते तस्मान्मोहस्तस्माच्च मोहात् भयादयो दोषाः । मकारोऽलाक्षणिकः । आदिशब्दात्तत्संस्पर्शनेन हृदयोत्कम्पविह्वलतादिदोषपरिग्रहः । त एवभयादयो दोषाः तज्ज्ञाने-‘रज्जुरियं न सर्प' इति विज्ञाने न भवन्ति । 'तत्तो य'त्ति । तस्माच्च भयादिदोषाभावात् सुखसिद्धिरेष दृष्टान्तः ॥६६४॥
अमुमेवार्थ दार्टान्तिके योजयन्नाह - बज्झत्थे विन्नाणं मोहो रागाइया तओ दोसा । ते चेव उ तन्नाणे न होन्ति तत्तो य मोक्खसुहं ॥६६५॥ (बाह्यार्थे विज्ञानं मोहो रागादयस्ततो दोषाः । त एव तु तज्ज्ञाने न भवन्ति ततश्च मोक्षसुखम् ॥६६५॥) बाह्यार्थे यद्विज्ञानं तत्सत्त्वसाधनप्रवणमुपजायते तत् मोहो, बाह्यार्थस्य युक्त्याऽनुप
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org