________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
१५
जलादितोलने तुलानतिविशेषो भवति, जलादिना मत्स्यादिगुरुत्वस्य प्रतिबन्धात्, तथा पटादिरूपावयविगुरुत्वस्यापि सूत्रपिण्डादिना प्रतिहतत्वात् न तत्तोलने तुलानतिविशेषो भवतीति, तदप्ययुक्तम्, दृष्टान्तदाटन्तिकयोर्वैषम्यात्, मत्स्यादयो हि न सकलं जलादिकमभिव्याप्यावतिष्ठन्ते किंतु तदेकदेशं, ततोऽपान्तरालस्खलनेन जलादिना तद्गुरुत्वप्रतिबन्धसंभवात् तत्र तुलानतिविशेषो न भवति, अयं च पुनरवयवी सर्वानपि स्वावयवानभिव्याप्यावतिष्ठते ततः स्वावयवैरपान्तरालस्खलनाभावेन तद्गुरुत्वप्रतिबन्धायोगादवश्यं तोलने तुलानतिविशेषो भवेत्, न च भवति, तस्मान्नावयवी कश्चिदर्थान्तरभूतः स्वावयवेभ्यः समुत्पद्यत इति । अन्यच्च, असौ पटादिकोऽवयवी एकोऽभ्युपगम्यते ततस्तदेकदेशचलने सर्वस्यापि पटादेश्चलनप्रसङ्गः, तस्यैकस्वरूपत्वात्, अचलने वा चलाचलतदेकदेशयोविरुद्धधर्मसंसर्गादभेदप्रसङ्ग, न च वाच्यमत्रावयवश्चलनक्रियावान् नावयवी, ततो नोक्तदोषावकाश इति, अवयविनो विनाशप्रसङ्गात् तथाहि-अवयवेषु चलनक्रियावत्सु विभागो जायते, तेन च विभागेन संयोगोऽसमवायिकारणं निवर्त्यते, तस्मिंश्च निवर्तिते सत्यवयविनो विनाशप्रसङ्गः । निमित्तकारणं हि तन्तुवायादिकं निवर्तमानं पटादिकं न निवर्त्तयति, यत्तु असमवायिकारणं संयोगः समवायिकारणं तु तन्त्वादि तन्निवर्त्तमानमवश्यं निवर्त्तयतीति । तथा एकस्यावयवस्यावरणे सर्वस्याप्यावरणप्रसङ्गः, आवृत्तैकावयवस्थावयविरूपादवयवान्तरस्थस्यावयविरूपस्याभिन्नत्वात्, अथानावृतावयवस्थमवयविरूपमनावृतमिव दृश्यत इति मन्येथाः, ननु तर्हि दृश्यमानावयविरूपाव्यतिरेकादावृतावयवस्थमप्यवयविरूपं दृश्येत, अन्यथा तयोर्भेदप्रसङ्गात्, अवयवस्यावरणं नावयविन इति यथोक्तदोषाभाव इति चेत् ? एवं तर्हि प्रभूतावयवावरणेऽपि तस्यानावृतत्वादनावरणावस्थायामिव सर्वात्मना दर्शनप्रसङ्गः । अथोच्येत-अवयवद्वारेणावयविनो दर्शनमित्यदृष्टावयवस्याप्रतिपत्तिरिति, तदयुक्तम्, आवृतावयवस्थानावृतावयवस्थावयविरूपयोरभेदेन सर्वात्मना प्रतिपत्तिप्रसङ्गस्य परिहर्तुमशक्यत्वात् । न चार्वाग्भागापरभागादयः सर्वेऽप्यवयवा युगपदुपलब्धुं शक्यन्ते, ततोऽवयवदर्शनद्वारेणावयविनो दर्शनाभ्युपगमे सर्वदैवास्यादर्शनप्रसङ्गः, रक्ते चैकस्मिन्नवयवे तत्स्थस्यावयविरूपस्यावयवान्तरेऽप्यभेदेन भावात् सर्वत्रापि रागप्रसङ्गो न वा क्वचिदपि । अवयवस्य रागो नावयविन इति चेत् ? नन्वेवं तर्हि अवयवरूपं रक्तमवयविरूपं चारक्तमित्येवं रक्तारक्ततयोपलम्भः स्यात्, न चारसावस्तीति बालिशजल्पितमेतत् । अपि च, चतुरश्रा(स्रा)वयवि द्रव्यं येन प्राग्देशेन व्याप्तं तं प्राग्देशं परिच्छिन्दता प्रत्यक्षेण तस्याभावो व्यवच्छिद्यते, अन्यथा स एव परिच्छिन्नो न भवेत्, यदपि च प्रत्यग्लक्षणं देशान्तरं तदपि तेन व्यवच्छिद्यते, तस्य तदभावाव्यभिचारित्वात्, चतुरश्रा(स्रा)वयवि द्रव्यरूपं चैकमभ्युपगम्यते ततो यदेव तद्रूपं प्राग्देशेन व्याप्तं तदेव तदभावेनापि व्याप्तमित्यायातं, तस्य प्रत्यग्देशेनापि व्याप्त्यभ्युपगमात्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org