________________
१४
धर्मसङ्ग्रहणी
परिशिष्ट - २
___ यद्यप्यनित्यत्वादिदोषप्रसङ्गभयादमूर्तोऽवयवी अभ्युपगम्यते तथापि अमूर्त्तत्वेऽपि 'हन्तेति' परामन्त्रणे 'से' तस्यावयविन आकाशस्येवानुपलम्भः प्राप्नोति, अथवा इतरस्यापि-आकाशस्य अवयविन इव उपलम्भः प्राप्नोति । कुत इत्याह-तदभेदात्-तयोरमूर्त्तत्वाभिन्नदेशत्वयोरुभयत्राप्यभेदात्-अविशेषात् ॥६६०॥
अत्रार्थवादिनो मतमाह - समवायलक्खणेणं संबंधेणं ण तंपि संबद्धं । तदभिन्नदेसताए को अन्नो एस समवायो ? ॥६६१॥ (समवायलक्षणेन सम्बन्धेन न तदपि सम्बद्धम् । तदभिन्नदेशतायाः कोऽन्य एष समवायः ॥६६१॥)
अवयव्येष स्वावयवैः सह समवायलक्षणेन संबन्धेन संबद्धो न तदपि-आकाशं, ततो नामूर्त्तत्वाभिन्नदेशत्वाविशेषेऽपि तस्योपलम्भप्रसङ्ग इति । अत्राह - 'तदभिन्नेत्यादि' । ननु तदभिन्नदेशतायाः-स्वावयवाभिन्नदेशतायाः सकाशात् अन्यः क एष समवायोऽवयविनः स्वावयवेषु ? नैव कश्चिदित्यर्थः, किंतु तदभिन्नदेशतैव, सा चाकाशेऽप्यविशिष्टेति तस्याप्युपलम्भः प्राप्नोति, न च भवति, तस्मादवयविनोऽपि मा भूदिति ॥६६१॥
तम्हा मुत्तसरुवानुगमं मोत्तूण णत्थऽमुत्तस्स ।। गहणं तब्भावम्मि य एगंतेणं कहं भेदो ? ॥६६२॥ (तस्मान्मूर्तस्वरूपानुगमं मुक्त्वा नास्त्यमूर्तस्य । ग्रहणं तद्भावे च एकान्तेन कथं भेदः ॥६६२॥)
तस्मान्मूर्तस्वरूपानुगम-मूर्त्तिमत्स्वारम्भकावयवस्वरूपानुगमनं मुक्त्वा नास्त्यमूर्तस्यावयविनो ग्रहणं, तद्भावे च मूर्तस्वारम्भकावयवस्वरूपानुगमभावे च कथमेकान्तेन द्विप्रदेशिकावयविपरमाणुद्वयोर्भेदः ? किंत्वभेद एव, तथा च सति पूर्वोक्तानित्यत्वादिदोषप्रसक्तिरव्याहतप्रसरेति यत्किंचिदेतत् । किं च, तस्यावयविनः स्वारम्भकावयवेभ्यो जन्मापि न युक्त्योपपद्यते । तथाहि-परमाणव आकालमप्रच्युतानुत्पन्नस्थिरैकस्वभावाः । “सूक्ष्मो नित्यश्च भवति परमाणुरित्यादिवचनात्," ततश्च यदि प्रागवयविनो व्यणुकादेर्न जनकास्ततः पश्चादपि तत्स्वभावानिवृत्तेरजनका एव, अन्यथा प्रागपि ते जनयेयुरिति । अपि च, यदि स्वारम्भकावयवेभ्योऽवयवी भिन्नः समुत्पद्यते ततः पञ्चपलपरिमाणसूत्रपिण्डादेः पटादिरूपार्थान्तरावयविनिष्पत्तौ तस्यापि महत्त्वेनाभ्युपगमात् तोलने तुलानतिविशेषो गृह्येत, न च गृह्यते, तत्कथमास्था तत्र विदुषाम् ? अथोच्येत-यथा जलान्मत्स्यस्य काष्ठाद्वा घुणस्यार्थान्तरभूतस्योत्पत्तावपि न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org