SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार किं च इमोऽवयवाणं अभिन्नदेसो व्व होज्ज इतरो वा ? । जति तावऽभिन्नदेसो भिन्ना दुपदेसिए ण अणू ॥६५७॥ (किञ्चायमवयवानामभिन्नदेशो वा भवेदितरो वा ? । यदि तावदभिन्नदेशो भिन्नौ द्विप्रदेशिके नाणू ॥६५७॥) एवं च अणिच्चत्तं सपदेसत्तं च पावइ अणूणं । तब्भेदासति तदभिन्नदेसताऽवयविणो जुत्ता ॥६५८॥ (एवं चानित्यत्वं सप्रदेशत्वं च प्राप्नोति अणूनाम् । तभेदासति तदभिन्नदेशताऽवयविनो युक्ता ॥६५८॥) किंच - अयम् - अवयवी स्वारम्भकाणामवयवानामभिन्नदेशो वा भवेत् इतरो वाभिन्नदेशः ? तत्र यदि तावदभिन्नदेश इति पक्षस्ततो द्विप्रदेशिकेऽवयविनि न भिन्नौ तावणू। कुत इति चेत् ? अत आह-'तब्भेदासइ इत्यादि' उत्तरार्द्धम् । यस्मात्ताभ्याम्-अणुभ्यां सह भेदासति-भेदासत्त्वे भेदाभावे सति तदभिन्नदेशता-स्वारम्भकाणुद्वयाभिन्नदेशता अवयविनो युक्ता नान्यथा, ततो नाभिन्नदेशतायां तावणू भिन्नौ भवितुमर्हतः ॥६५७|| पूर्वार्द्धम्, एवं च सति अण्वोरवयविनः सकाशाद्भेदाभावे सति द्विप्रदेशिकावयविवद् अण्वोरपि अनित्यत्वं सप्रदेशत्वं च स्वतन्त्राभ्युपगमविरोधि प्राप्नोतीति ॥६५८॥ अत्रार्थवादिनां मतमपाकर्तुमाशङ्कमान आह - सिय अवयवी अमुत्तो जं ता तदभिन्नदेसयाए वि । आगासेण व दोसा अणिच्चमादी कुतो नूणं ? ॥६५९॥ (स्याद् अवयवी अमूर्तो यत् तत् तदभिन्नदेशतायामपि । आकाशेनेव दोषा अनित्यत्वादयः कुतो नूनम् ? ॥६५९॥) स्यादेतत्, यत-यस्मादमूर्तोऽवयवी 'ता' तस्मात् तदभिन्नदेशतायामपि-आकाशेनेव तेनावयविना सह अभिन्नदेशतायामपि अणुद्वयस्य कुतो नूनमनित्यत्वादयो दोषाः प्राप्नुवन्ति ? नैव कुतश्चिदिति भावः ॥६५९।। अत्राह - हंत अमुत्तत्तम्मिवि आगासस्सेव अणुवलंभो से । पावति तदभेदातो इतरस्सवि अहव उवलंभो ॥६६०॥ (हन्त ! अमूर्त्तत्वेऽपि आकाशस्येवानुपलम्भस्तस्य । प्राप्नोति तदभेदादितरस्यापि अथवा उपलम्भः ॥६६०॥) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005535
Book TitleAnekantjaipataka Part 04
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy