________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
अवयविपक्षमधिकृत्याहअवयविणोवि य गहणं समुदायअगहणओ णिसिद्धं तु । वित्तीवि अवयवेसुं न सव्वाहा जुज्जती तस्स ॥६५४॥ (अवयविनोऽपि च ग्रहणं समुदायाग्रहणतो निषिद्धं तु । वृत्तिरपि अवयवेषु न सर्वथा युज्यते तस्य ॥६५४॥)
अवयविनोऽपि च ग्रहणं समुदायाग्रहणतो निषिद्धमेव द्रष्टव्यम् । तुशब्द एवकारार्थः । नहि स्वारम्भकाणुद्वयग्रहणमन्तरेण द्विप्रदेशिकावयविनो ग्रहणमुपपद्यते, तस्य च स्वारम्भकाणुद्वयस्य ग्रहणं 'पत्तेयं व अगहणमित्यादिना प्रागेवापास्त-मिति, अन्यच्च-वृत्तिरपि तस्यावयविनः स्वारम्भकेष्ववयवेषु सर्वथा न घटते ॥६५४॥
तथाहि - पत्तेयमवयवेसु देसेणं सव्वहा व सो होज्जा ? । देसेणं सावयवोऽवयविबहुत्तं अदेसेणं ॥६५५॥ (प्रत्येकमवयवेषु देशेन सर्वथा वा स भवेत् । देशेन सावयवोऽवयविबहुत्वमदेशेन ॥६५५॥)
प्रत्येकमवयवेषु स:- अवयवी देशेन वा भवेत् सर्वथा-सर्वात्मना वा ? यदि देशेन ततः सोऽवयवी सावयवः- सदेशः प्राप्नोति, तथा च सति स्वाभ्युपगमविरोधः । अथादेशेनकात्स्येनेति पक्षस्ततोऽवयविबहुत्वं प्राप्नोति, यावन्तोऽवयवास्तावन्तोऽवयविनः प्राप्नुवन्ति, तथा च प्रतीतिविरोधः ॥६५५।।
अह वदृतित्ति भणिमो जुज्जति एतं विहाय पक्खदुगं । जइ होइ कोइ अवरो वित्तिपगारो स तु ण दिट्ठो ॥६५६॥ (अथ वर्तत इति भणामो युज्यते एतद् विहाय पक्षद्विकम् । यदि भवति कोऽपि अपरो वृत्तिप्रकारः स तु न दृष्टः ॥६५६॥)
अथोच्येत, न भणामो वयमवयवी देशेन कात्स्न्येन वा वर्तते, एकस्य देशकात्स्न्र्त्यविकल्पायोगात्, किंतु स तत्र वर्त्तत इत्येव भणामः, ततः कुतः पूर्वोक्तदोषावकाश इति । अत्राह'जुज्जइ इत्यादि' । युज्यते एतत्-पूर्वोक्तं यदि देशकात्स्य॑ लक्षणपक्षद्विकं विहाय अपरः कोऽपि वृत्तिप्रकारो भवेत्, स तु न दृष्ट इति वचनमात्रमेतत् ॥६५६।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org