________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
ततः किमित्याह - संयोगोऽवि य तेसिं देसेणं सव्वहा व होज्जाहि ? । देसेण कहमणुत्तं ? अणुमेत्तं सव्वहाभवणे ॥६५१॥ (संयोगोऽपि च तेषां देशेन सर्वथा वा भवेत् ? । देशेन कथमणुत्वम् ? अणुमात्रं सर्वथाभवने ॥६५१॥)
संयोगोऽपि च तेषां परमाणूनां किं देशेन भवेत् सर्वात्मना वा ? यदि देशेन ततः कथं तेषां परमाणुत्वं ? निरंशस्यैव परमाणुत्वाभ्युपगमात्, देशाभ्युपगमे सांशताप्रसङ्गात् । अथ सर्वथेति पक्षस्तत्राह-'अणुमेत्तं सव्वहाभवणे' । सर्वथा-सर्वात्मना संयोगस्य भवनेऽभ्युपगम्यमाने अणुमात्रं प्राप्नोति, परमाणोः परमाण्वन्तरे सर्वात्मना प्रवेशात् ॥६५१।।
अह अपरोप्परपच्चासन्नत्तणमो उ होइ संजोगो । पत्तेयं व अगहणं पावइ इय समुदिताणंति (णंपि पा.) ॥६५२॥ (अथ परस्परप्रत्यासन्नत्वं तु भवति संयोगः । प्रत्येकमिवाग्रहणं प्राप्नोतीति समुदितानामपि ॥६५२॥)
अथ मन्येथा न परपस्पररूपप्रवेशलक्षणः परमाणूनां संयोगः, किंतु परस्परं प्रत्यासन्नत्वमेव, तथा च सति न पूर्वोक्तदोषावकाश इति । अत्राह-'पत्तेयं वेत्यादि' । वशब्द उपमायाम्, यदाह वररुचि :- "पिव-मिव-विव-इवार्थे वश्चेति" । प्रत्येकमिव-केवलानामिव समुदितानामपि स्वस्वरूपनियतत्वात् तेषामग्रहणं प्राप्नोति ॥६५२॥
अपि च - हाणी य अणुत्तस्सा दिसिभेदातो णयन्नहा घडति । तेसिमिहो पच्चसन्नतत्ति परिफग्गुमेयंपि ॥६५३॥ ( हानिश्चाणुत्वस्य दिग्भेदतो नान्यथा घटते। तेषां मिथः प्रत्यासन्नत्वमिति परिफल्गु एतदपि ॥६५३॥)
यदि परस्परं प्रत्यासन्नत्वं संयोग इष्यते ततो दिग्भागभेदतोऽवश्यं दिग्भागभेदसंभवतो हानिश्चाणुत्वस्य प्राप्नोति । 'नयेत्यादि' । चो हैतौ । यस्मान्नान्यथा-दिग्भागभेदमन्तरेण तेषामणूनां मिथ:-परस्परं प्रत्यासन्नता घटते । तथाहि-एकस्य परमाणोः सर्वासु दिक्षु तदपरपरमाणुभावेन मिथस्तेषां प्रत्यासन्नत्वं, तथाच सत्यवश्यं दिग्भागभेदसंभवस्तस्माच्च परमाणुत्वक्षितिरित्येतदपि समुदायपरिकल्पनं परिफल्गु असारमिति ॥६५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org