________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
__ अह उ निरागारं चिय विन्नाणं गाहगं कहं सिद्धं ?।।
भावम्मिवि तस्सेव उण उ अन्नस्सत्ति को हेतू ? ॥६४८॥ ( अथ तु निराकारमेव विज्ञानं ग्राहकं कथं सिद्धम् । भावेऽपि तस्यैव तु न तु अन्यस्येति को हेतुः ? ॥६४८॥)
अथैतदोषभयादेवमुच्येत - न साकारं ज्ञानं किंतु निराकारमेव सद् बाह्यस्य घटादेः परिच्छेदकमिति । अत्राह 'गाहगं कहं सिद्धं' । यद्यर्थाकारपरिस्फूर्तिर्ज्ञाने नाभ्युपगम्यते ततः कथं तत् ज्ञानमर्थस्य ग्राहकं सिद्धं ? नैव सिद्धमितिभावः । अर्थग्राहकत्वनिबन्धनविशेषाभावात् । अस्तु वा निराकारमपि सदर्थस्य ग्राहकं तथापि तत्तस्यैवार्थस्य ग्राहकं नत्वन्यस्येत्यत्र को हेतुः? नैव कश्चनेत्यर्थः, तत्सत्तामात्रस्य सर्वानर्थान् प्रत्यविशिष्टत्वात् ॥६४८।। अत्र परो विशेषमाह - तेणेव जतो जणितं किमेत्थ माणं ? तदत्थपडिवत्ती । सा कि नाणा भिन्ना ? आममपुव्वो इमो मोहो ॥६४९॥ (तेनैव यतो जनितं किमत्र मानम् ? तदर्थप्रतिपत्तिः । सा किं ज्ञानाद् भिन्ना ? आममपूर्वोऽयं मोहः ॥६४९॥)
यतो-यस्मात्तेनैव अर्थेन तत् ज्ञानं जनितं नत्वन्येन, तत्कथमन्यस्यापि तद्ग्राहकं भवेत् ? अत्राह-ननु तेनैवार्थेन इदं विज्ञानं जनितं नत्वन्येनेत्यत्र किं मान-प्रमाणं ? नैव किंचनेति भावः । अथोच्येत तदर्थप्रतिपत्तिरेव प्रमाणम्, तथाहि-सोऽर्थस्तेन ज्ञानेन प्रतिपद्यते, न च सा प्रतिपत्तिस्ततोऽर्थादुत्पतिमन्तरेणोपपद्यत इति । अत्राह-'सा किं नाणेत्यादि' । ननु सा-प्रतिपत्तिः किं ज्ञानाद्भिन्ना? येनैवमुच्यते अर्थप्रतिपत्त्या ज्ञानस्य तज्जनितत्व गम्यते तस्माच्च प्रतिकर्मव्यवस्थेति, नैव भिन्ना, किंतु सा ज्ञानमेव, तच्चाद्यापि दुःस्थितमित्यामम्-अतिशयेनापूर्वो मोहो येन प्रेक्षावानपि भवानित्थमसंबन्धं भाषत इति ॥६४९।।
एतेणं समुदायो पडिभणिओ चेव होइ नायव्वो । जं दुयणुमादिजोगं विहाय णो जुज्जए सोऽवि ॥६५०॥ (एतेन समुदायः प्रतिभणित एव भवति ज्ञातव्यः । यद् व्यणुकादियोगं विहाय नो युज्यते सोऽपि ॥६५०॥)
एतेन परमाणुनिराकरणेन समुदायोऽपि प्रतिभणित एव-निराकृत एव भवति ज्ञातव्यः, समुदाय्यभावे समुदायाभावात् । अन्यच्च सोऽपि परमाणुसमुदायो यस्मान्न व्यणुकादियोगंद्व्यणुकत्र्यणुकादिसंबन्धं विना युज्यते ॥६५०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org