________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
(अथ स्वाकारादेव तत्तुल्यो दृश्यते तु स येन । तन्मात्रानुभवनं विहाय किं दर्शनमन्यत् ॥६४५॥)
अथोच्येत स्वाकारादेव-नीलादिरूपात् स्वसंवेदनप्रमाणेनानुभूयमानात् सकाशात् तत्तुल्योज्ञानाकारतुल्योऽर्थो गम्यते । यदप्युक्तम्-'तग्गहणाभावे णणु इत्यादि' तदप्ययुक्तम्, येन कारणेन स्वाकारादनुभूयमानात्सोऽर्थो दृश्यत एव । तुशब्द एवकारार्थः । तथा च लोके वक्तारो भवन्ति'नीलाकारं मे ज्ञानं समुत्पन्नमतो बाह्येनापि नीलेन भवितव्यमिति' । अत्राह-'तम्मत्तेत्यादि' तन्मात्रानुभवनं-ज्ञानगतस्वरूपमात्रानुभवनं 'मो' निपातः पूरणार्थः, विहाय परित्यज्य किमन्यत् दर्शनं येनोच्येत 'दीसई उ सो जेणं ति' ? नैव किंचित्, किंतु ज्ञानगतस्वरूपमात्रानुभवनमेव ॥६४५॥
अथ मन्येथाः एतदेवार्थदर्शनं यज्ज्ञानस्य स्वाकारानुभवनमित्यत आहतम्मि य वेदिज्जंते पडिवत्तीए कहं न अन्नस्स ? । जायइ अइप्पसंगो तुल्लत्ताओ तयमसिद्धं ॥६४६॥ (तस्मिंश्च वेद्यमाने प्रतिपत्त्या कथं नान्यस्य । जायतेऽतिप्रसंगस्तुल्यत्वात् तदसिद्धम् ॥६४६॥)
तस्मिंश्च-नीलाद्याकारोपेतज्ञानस्वरूपमात्रे वेद्यमाने कथमन्यस्यापि पीतस्य प्रतीपत्त्या हेतुभूतया न जायते अतिप्रसङ्गः ? जायत एवेति भावः, नियामकाभावात् । 'तुल्लत्ताउ'त्ति । स्यादेतत्, तत् ज्ञानं न पीतेनार्थेन तुल्यं किंतु नीलेन ततस्तेनैव सह तुल्यत्वात् तस्यैव प्रतिपत्तिर्भविष्यति न पीतस्येति नातिप्रसङ्गः । अत आह - 'तयमसिद्धति' । तत् - तुल्यत्वमसिद्धं, तुल्यत्वसिद्धरुभयग्रहणनिबन्धनत्वात्, तस्य चोभयग्रहणस्याभावादिति ॥६४६॥
अपि च, तल्लत्तं सामन्नं एगमणेगासितं अजुत्ततरं । तम्हा घडादिकज्जं दीसइ मोहाभिहाणमिदं ॥६४७॥ (तुल्यत्वं सामान्यमेकमनेकाश्रितमयुक्ततरम् । तस्माद् घटादिकार्य दृश्यते मोहाभिधानमिदम् ॥६४७॥)
तुल्यत्वं-तुल्यरूपत्वं सामान्यं, तच्च एकम् - एकरूपं सत् अनेकाश्रितं-ज्ञानार्थोभयाश्रितमित्ययुक्ततरम्, एकस्यानेकाश्रितत्वायोगात्, अन्यथैकत्वक्षतेः । तस्मात् परमाणूनां कार्य घटादि दृश्यत इति मोहाभिधानमिदम् ॥६४७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org