________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
सो खलु तस्सागारो भिन्नोऽभिन्नो व होज्ज ? जति भिन्नो । तस्सत्ति को णु जोगो ? इतरम्मि तु उभयदोसोत्ति ॥६४२॥ (स खलु तस्याऽऽकारो भिन्नोऽभिन्नो वा भवेद् ? यदि भिन्नः । तस्येति को नु योगः ? इतरस्मिंस्तूभयदोष इति ॥६४२॥)
स खलु तस्य - अर्थस्याकारस्ततोऽर्थाद्भिन्नो वा भवेद् अभिन्नो वा? यदि भिन्नस्ततस्तस्यार्थस्यायमाकार इति को नु योगः संबन्धः ? नैव कश्चित्, भेदे सति तादात्म्यायोगात्, तदुत्पत्तेश्चानभ्युपगमात्, । इतरस्मिंस्तु-अभेदपक्षे उभयदोषःपूर्वोक्तः प्राप्नोति ॥६४२॥
तमेव विततीकर्तुमाह - तदभिन्नागारत्ते दोण्हवि एगत्तमो कहं ण भवे ? । नाणे व तदागारे तस्साणागारभावोत्ति ॥६४३॥ (तदभिन्नाकारत्वे द्वयोरपि एकत्वं कथं न भवेत् । ज्ञाने वा तदाकारे तस्यानाकारभाव इति ॥६४३॥)
तदभिन्नाकारत्वे-अर्थाभिन्नाकारत्वे सति संवेदनस्य द्वयोरपि-संवेदनार्थयोरेकत्वं कथं न भवेत् ? भवेदेवेति भावः, द्वयोरप्येकस्मादाकारादभिन्नत्वात् । ज्ञाने वा-ज्ञान एव वा तदाकारेविवक्षिताकारसहिते सति तस्य-अर्थस्यानाकारभावः प्राप्नोति, तदाकारस्य ज्ञाने संक्रान्तत्वात् ॥६४३ ॥
अत्रार्थवादिमतमाशङ्कमान आह - सिय तत्तुल्लागारं जं तं भणिमो अओ तदागारं । तग्गहणाभावे णणु तुल्लत्तं गम्मई कह णु ? ॥६४४॥ (स्यात्, तत्तुल्याकारं यत् तद् भणामः अतस्तदाकारम् । तद्ग्रहणाभावे ननु तुल्यत्वं गम्यते कथं नु ॥६४४॥)
स्यादेतत्, न बूमोऽर्थगताकारक्रोडीकरणेन संवेदनं तदाकारं, किंतु यत्-यस्मात् तत्संवेदनं तत्तुल्याकारम्-अर्थाकारसदृशाकारमितियावत्, अत:-अस्मात्कारणात् तदाकारम्-अर्थाकारं बूमः, ततो न कश्चिद्दोष इति, अत्राह-'तग्गहणेत्यादि' । तद्ग्रहणाभावे तस्यार्थस्य ग्रहणाभावे सति ननु संवेदनाकारस्यार्थाकारेण सह तुल्यत्वं कथं गम्यते ? नैव कथंचनेति भावः सादृश्यनिश्चयस्योभयग्रहणाधिष्ठानत्वात् ॥६४४।।
अह सागाराउ च्चिय तत्तुल्लो दीसती तु सो जेणं । तम्मत्ताणुहवणमो विहाय किं दंसणं अन्नं ? ॥६४५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org