________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार (केचित् प्रेक्षते योगी परमाणून् शून्यतां तथाऽन्ये । एकप्रवादग्रहणे को नु प्रद्वेषस्तु इतरस्मिन् ॥६३९॥)
केचिद् ब्रवते - योगी परमाणून प्रेक्षते, तथा अन्ये ब्रवते-शून्यतां प्रेक्षत इति । एकप्रवादग्रहणे च ‘परमाणून् योगी प्रेक्षत' इत्येवंलक्षणे प्रवादाभ्युपगमे च को नु इतरस्मिन् - 'शून्यतां योगी प्रेक्षत' इत्येवंलक्षणे प्रवादे द्वेषः? येनासावपकर्ण्यते, नैवासौ युक्तः, तन्निबन्धनप्रमाणाभावादिति भावः ॥६३९।।
अर्थवादिनो मतमाशङ्कमान आह - ते चेव कज्जगम्मा दीसति य घडाइयं इहं कज्जं । ण य दुयणुमादिजोगं विहाय सत्ता इमस्स भवे ॥६४०॥ (त एव कार्यगम्या दृश्यते च घटादिकं इह कार्यम् । न च व्यणुकादियोगं विहाय सत्ता अस्य भवेत् ॥६४०॥)
त एव-परमाणवो बाह्योऽर्थः कथंभूतास्ते इत्याह-कार्यगम्या:-कार्यान्यथानुपपत्तिलक्षणप्रमाणगम्याः, न च तत्कार्यमसिद्धम्, यत आह-दृश्यते च घटादिकमिह परमाणूनां कार्य, चो हेतौ, यस्मान्न खलु अस्य-प्रत्यक्षत उपलभ्यमानस्य घटादिकार्यस्य व्यणुकादियोगं विहायद्व्यणुकत्र्यणुकादिव्यतिरेकेण सत्ता भवति, ततो घटादिकमवश्यं परमाणूनां कार्यमित्यवगन्तव्यम् । तथा च सति परमाणवः कार्यगम्याः सिद्धा एव ॥६४०॥
अत्र ज्ञानवादी दूषणमाहकह दीसतित्ति वच्चं ? जायइ संवेदणं तदागारं । दोण्हवि एगत्तं इय तस्साणागारभावो वा ॥६४१॥ (कथं दृश्यत इति वाच्यम् ? जायते संवेदन तदाकारम् । द्वयोरपि एकत्वमिति तस्यानाकारभावो वा ॥६४१॥)
कथं घटादिकं दृश्यत इति वाच्यं ? किमत्र वाच्यं ? यतो जायते संवेदनं तदाकारं - घटादिरूपार्थाकारं ततस्तत् दृश्यत इत्युच्यते इति चेत् ? आह - 'दोण्हवि एगत्तं इय'त्ति । इति – एवं सति संवेदनस्यार्थाकारत्वे सतीतियावत् द्वयोरपिज्ञानार्थयोरेकत्वं प्राप्नोति, तथाहिसंवेदन-मर्थाकारमभ्युपगम्यते ततोऽर्थस्याकारो यस्मिन् वेदने तदर्थाकारमिति संवेदनस्यार्थाकाराभिन्नत्वात् द्वयोरप्येकत्वं प्राप्नोत्येवं । 'तस्साणागार भावो व'त्ति । यद्वा तस्यार्थस्यानाकारभावः प्राप्नोति, तदाकारस्य संवेदने संक्रान्तत्वात् ॥६४१।।
एतदेव दूषणद्वयं सप्रपञ्चं भावयन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org