________________
धर्मसङ्ग्रहणी
परिशिष्ट - २ यत्पुनरुक्तं - यदपि जन्तुशरीरे उभयजं तत्राप्यविगानमेवेति, तत्र ज्ञानवाद्याह - बज्झत्थाभावातो भत्ती एसा इमो तु देहोत्ति । विन्नाणमेत्तमेव उ परमत्थो कह णु अविगाणं? ॥६३६॥ (बाह्यार्थाभावाद् भक्तिरेषाऽयं तु देह इति । विज्ञानमात्रमेव तु परमार्थः कथं नु अविगानम् ॥६३६॥)
ननु विज्ञानमात्रमेव परमार्थः न तु बाह्योऽर्थः, तस्य वक्ष्यमाणयुक्त्या अनुपपद्यमानत्वात्, ततो बाह्यार्थाभावात् यदेतदुच्यते – 'अयं देह इति, भक्तिरेषा-स्वदर्शनानुराग एषः । ततः कथं नु अविगानम् ? येनोच्यते 'जं पुण जंतुसरीरे उभयजमित्थंपिमं चेव'त्ति ॥६३६॥
कथं पुनर्बाह्यार्थाभावः सिद्धो येन विज्ञानमात्रमेव परमार्थः स्यादिति चेत् ? अत आह - बज्झत्थो परमाणू समुदायो अवयवी व होज्जाहि? । गाहगपमाणविरहा सव्वोऽवि ण संगतो एस ॥६३७॥ (बाह्यार्थः परमाणवः समुदायोऽवयवी वा भवेत् । ग्राहकप्रमाणविरहात् सर्वोऽपि न संगत एषः ॥६३७॥)
बाह्योऽर्थो हि परमाणवो वा समुदायो वा - परमाणुसमुदायः अवयवी वा भवेत् ? न च एष सर्वोऽपि संगतः, कुत इत्याह-तद्ग्राहकप्रमाणाभावात् । न च प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता, मा प्रापदतिप्रसङ्ग इति ॥६३७।।
तत्र यथा परमाणुषु ग्राहकप्रमाणाभावस्तथोपपादयन्नाह - परमाणवो ण इंदियगम्मा तग्गाहकं कुतो माणं ? । अविगाणाभावातो ण जोगिनाणंपि जुत्तिखमं ॥६३८॥ (परमाणवो नेन्द्रियगम्यास्तद्ग्राहकं कुतो मानम् । अविगानाभावान्न योगिज्ञानमपि युक्तिक्षमम् ॥६३८॥)
परमाणवो नेन्द्रियगम्या-न चक्षुरादीन्द्रियगोचराः ततस्तद्ग्राहकं प्रत्यक्ष प्रमाणं कुतो भवेत् ? न कुतश्चिदिति भावः, अतीन्द्रियत्वात् । स्यादेतत्, मा भूदस्मदादिप्रत्यक्षं तद्ग्राहकं प्रमाणं, योगिप्रत्यक्षं तु तद्ग्राहकं भविष्यतीति आह - 'अविगाणेत्यादि' । न योगिज्ञानमपि-न योगिप्रत्यक्षमपि परमाणुसिद्धौ युक्तिक्षमम्, कुत इत्याह-अविगानाभावात् विगानादित्यर्थः ॥६३८॥
विगानमेव दर्शयतिकेई पेच्छइ जोगी परमाणु सुन्नतं तहा अन्ने । एगप्पवायगहणे को णु पदोसो तु इतरम्मि ? ॥६३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org