Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 14
________________ सारालङ्कारसरः (११) जगदण्डम् । तस्माद्गर्ताम्बु ततोऽप्यघं मम हरे कथं हरेरेतत् ॥१४१७॥ ___ हरेः हो लिङ् मध्यमैकवचनम् । अत्र गाम्बुपर्यन्तेषु विपुलतमत्वं श्लाघ्यो धर्मः। प्रकृतार्थे त्वघे अश्लाघ्यः॥ अत्रेदमवधेयम्-एकविषये शृङ्खलाया अचारुतया तदनुप्राणितस्सारो न चारुतां लभते, तस्यास्स्वाभाविकभेदापे. क्षित्वेनावस्थादिकृतभेदे अनुल्लासात् । अतएवास्मिन्विषये वर्धमानकनामालङ्कारोऽन्यैरभ्युपगतः। तल्लक्षणं च 'रूपधर्माभ्यामाधिक्ये वर्धमानकम्' इति कृतम् । तस्मात्कारणमालादिर्यथा शृङ्खलैकविषया, न तथा सारश्शक्यो वक्तुम्, एकविषये अलकारान्तराभ्युपगमप्रसङ्गात् । ‘सारो गुणस्वरूपाभ्यां वैशिष्टये पूर्वपूर्वतः' इति तु लक्षणं सारस्ययुक्तम् । गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्टये सार इति तदर्थः । स च कचिच्छृङ्खलानुप्राणितः, क्वचित्स्वतन्त्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम् । एवं शृङ्खलाविषयाणामलङ्काराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलकारत्वे सिद्ध शृङ्खलाया विरोधाभेदसाधादिवदनुप्राणयितृतैवोचिता न पृथगलंकारता । तथात्वे अभेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तु न विच्छित्तिवैलक्षण्यं, अपितृपमाविच्छित्तिरवति संप्रदायः । ननु केयं विच्छित्तिः? उच्यते-अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण काव्यनिष्ठा कविप्रतिभा, तजन्यत्वप्रयुक्ता चनकारिता वा विच्छित्तिरिति गृह्यताम् ॥ इत्यलङ्कारमणिहारे सारसर एकपञ्चाशः:

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 358