Book Title: Agamoddharak Krutisanodh
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 214
________________ 207 आगमोद्धारककृतिसन्दोहे सङ्क्षिप्ता यदि तन्निरूपणचणाः शब्दाः सदाभिधाः , उक्तास्ते न तदा परस्परगति प्तागमानां क्वचित् // 55 // सदागमाः ! किं भवतां महत्त्वं, तुरंगशृङ्गाणि यतो न यूयम् / ख्याथेष्टवर्गेऽन्यवचांसि यद्वन् , नित्यार्थमाना इति विज्ञवीक्ष्याः / / 56 / / जिनं गणिं वृष श्रयन् भवी तपन् महातपः, सुपुण्यराशिसाधनोद्यतश्च कष्टमाश्रयन् / वचोतिगं न मुच्यते सदागमानृते ननु, (भवन्मता) यथार्थभावमाननाद्भवन्त इष्टसिद्धये ||57 // जैनत्वं ननु सिद्धमागममतान् सिद्धाञ्जिनान् साधुपान् , पाठकयुक्तमुनीन् मनेद्यदि भवी देवान् गुरूँश्चादरात् / धर्मं चाश्रयति प्रधानपदवी प्राप्तं सुदृष्टयादिकं, तत्सत्यं श्रितिरागमस्य जनतानिःश्रेयसे साधनम् // 58 / / आगम आप्ततमो यदि विश्वे, विश्वविदा प्रणीतार्थपरः स्यात् / न च हित्वा कषभेदतपैस्तु, शुद्धिं सोऽश्नुत आप्तपदं तु // 59 / / परभवकरणिर्जनिमृतिहरणिनिजबलभरणिर्जगति परा, जिनपतिकथिता गणपतिदृमिता मुनिततिविनताऽऽगमविततिः। जन्मजरात चरमावर्ते नियतमनाः मानं तस्या, __ मत्वा विबुधा आगमसुबुधा गतसम्बाघा भजत सदा // 60 // शरणं शरणं व्रज ब्रज शरणं जिनपागममपहतमरणं, हरणं हरणं बत बत हरणं सञ्चितदुर्गतदुरितततेः /

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248