Book Title: Agamoddharak Krutisanodh
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ 212 आगममहिमा बुद्धवा प्रज्ञापनायाः पदमसममितान् बोधयन्तीद्धबोधान् / जीवाँस्तद् द्रव्यभावात्मकमितरदिहाप्तागमीयं श्रुतं स्यात् / / 8 / / शमोऽसमं साम्यमुपैति चिन्तनात , चेत्तच्छमोदन्तफलोहकं स्यात् / तथोहनं नैव सरागशास्त्रात्ततः शमात्मात्मक आगमः शुभः // 88 // आगम! उद्धर मां भवभीतं दृष्ट्वाऽगम्यां तव गतिमीहा, कञ्चिच्छितमुत्तारयसि त्वं लगति न यत्र मुहूर्तमनूनम् / / कञ्चिदुपार्धविवर्तभवान्तीनं कृत्वा तत उद्धरसे. चित्रं कालं तावन्तं त्वं फलसि विलम्बं कृत्वाऽपि द्राक् // 8 // आगम ! तव सेवापर आत्मा चेजन्माष्टकमपगतभेदं, तद्भव एव भवेत् स निवृत्तिं पूर्णामात्मनि धतुं दक्षः / उत्कृष्टां यदि तां मुनिरीः तद्भक एव मुहूर्तादर्वाग् , भवसि तटार्थी भववार्धेस्त्वं कुरु मयि रङ्के लघु तां सिद्धिम् // 9 // उत्साहस्ते विधातुं परमशिवपदं संश्रितानां नराणां, तेऽप्याप्तुं तत्सदोत्काः भवभयविधुराः साधनं ते तथैव / कोऽत्रास्ति प्रध्वरां यो विफलयति समां सत्प्रवृत्तिं भवान्तः, हाहा शुद्धागम ! त्वं मतिततिमनघां प्रेक्ष्य कार्य विधत्से // 9 // या यत्यतेऽङ्गिनिचयो लघुसिद्धिमात्तुं, शुद्धागम ! त्वमपि तत्पथपाटवोऽसि / . सिद्धिः पुनर्भविजनान् वरितुं समुत्का, भव्यत्वमेव विविधं विविधां (तु विधि) विधत्ते / / 92 //

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248