Book Title: Agamoddharak Krutisanodh
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ 231 आगमोद्धारककृतिसन्दोहे धाय धायं गुरूणामनुमतिममलां भृत्यवर्गस्य बाधां, हारं हारं तदेतच्छिवपदसुभगं सेवनीयं महाङ्कम् // 201 / / जिना दीक्षायाः प्राग् ददति दानं तु शरदः, सदा प्रोक्तं शास्त्र जिनमहादानममितम् / यदि श्रित्वा शुद्धागमततिं दानमयते, तदेतच्छ्रेयस्यै ननु महादानममलम् - // 202 // नास्ति विशेषो भक्तेः प्रीतेर्जिनपवृषादरे, ह्यागमवाक्यात् सद्बुद्धीनां दानादि (सुकृत) समादरे / सदनुष्ठानेऽस्त्येषोप्यत्रागमे परमादराद् , धामाबाधं सत्साधूनां भवेदत एव हि // 203 / / त्यक्त्वा गेहं तातं जननी तनूजमिहाङ्गनां. - बन्धुं ज्ञातिं पुत्रीं पुत्रं मित्राणि च सौहृदान् / जातः साधुस्तत्साफल्यं कालादिविधानतो, विनतः सूरौ चेत् सन्धत्तेऽनघागमसन्ततिम् // 204 // पूजां सत्परमेष्ठिनां यदि भवान् कुर्यात् त्रिसन्ध्यं सदा, पुष्पाद्यैवरसाधनैः शुचितरैर्भद्रान्तिकां सर्वदा (तः)। .. सा चेदागमसङ्गता यदि तदाऽव्याबाधसम्पत्तये, नो चेत् सा परमार्थसिद्धिविकलं दद्यात् सुरादेः सुखम् // 205 / / ध्याने यो निरतः शुभो मुनिगणः सालम्बने शुद्धिदे, ध्याताऽसौ जिनसम्पदं सुरकृतां छत्रादिकामूर्जिताम् / दृष्टो नैव जिनो न चाऽमरकृता शोभा प्रतीहारिणी, मत्वाऽसौ जिनपागमेभ्य उदितध्यानोऽपरालम्बनः // 206 / /

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248