Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ अमृतसागरमुनि-स्तुत्यष्टकम् / अमृतसागरं मुनिवरं सदा भजत भावतः सद्गुणाकरं, / शिशुदशायुतः प्रशमपात्रतां श्रुतमतां गतः सद्गुरूदितेः / विनयभाजनं सुजनसङ्गतो निकटसिद्धिकः सद्गुणे रतः, " प्रतिदिनं प्रगे जिनवरार्चनं समसृजन मुदा सत्पदार्थिकः // 1 // गुरुवचोऽमलं हृदि निधारयन् जिनपतेर्मतं शान्तिदायकं, मनसि सारयन् मुदमुदीरयन् समयदेशिनां धर्मबोधने / वचनमानयन् सुकृतसाधने वितथतोज्झितं चित्तपङ्कजे, सफलजन्मिता दधदुपाश्रये वसतिवर्यतां बोधतो वजन // 2 // समयसागराद् वचनवर्णिकां मणिगणोपमा दायवर्जितां, समवधारयन् सुकृतमार्गगं जनगणं मुदा धर्म (मुद्गृणन्) / निजमतिप्रमं वचनमुगिरन् सरलभाविके भावुकं ददद्, गृहिंदशां श्रितः श्रमणभावनां जगति साधयन् प्राप निवृतिम् / 3 / उषित आग्रहादनुजबन्धुना गृहधृतौ कृताद् दिष्टमल्पकम्, पटुकृतं ततः विषयवारणं कनककामिनीयुग्ममुजहत् / स्वजनसंहतेः प्रणयकारणं भवभयोज्झितो मार्गमादिशन्, श्रमणताश्रयं विरतिधारणं सततशुद्धिभाक् पाप काङ क्षितम् // 4 // श्रमणतां श्रितो धृतिबलं गतो वयसि बालकः षोडशाब्दिके, सुरनपत्तनात् शुभमनोरथोऽगमदपापहत् 'नूत्नसारिके। 1 नवसारीग्रामे - P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust led by CamScanner

Page Navigation
1 ... 151 152 153 154 155