Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ " नन्दी - चूलिकासूत्रं सकलशरीराधिष्ठातृकैकरूपतयाऽनुभवात्, अथ समुदायस्य धर्म्मः, तदप्यसत्, प्रत्येकमभवात्, प्रत्येकं हि यदसत्तत्समुदायेऽपि न भवति, यथा रेणुषु तैलं स्यादेतत्-मद्याङ्गेषु प्रत्येकं मदशक्तिरदृष्टाऽपि समुदाये भवतीति दृश्यते तद्वचैतन्यमपि भविष्यमि को दोष: ?, तदयुक्तं, प्रत्येकमपि मद्याङ्गेषु प्रत्येकं मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात्, तथाहि दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पेषु च मनाक् विकलतोत्पादकतेत्यादि, न चैवं चैतन्यं सामान्यतो भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद् भवितुमर्हति ?, मा प्रापत् सर्वस्य सर्वत्र भावप्रसक्त्याऽतिप्रसङ्गः । किञ्च-यदि चैतन्यं धर्म्मत्वेन प्रतिपन्नं ततोऽवश्यमस्यानुरूपो धर्मी प्रतिपत्तव्यः, आनुरूप्याभावे जलकाठिन्ययोरिव धर्मिधर्म्मभावानुपपत्तेः, न च भूतान्यनुरूपो धर्मी, वैलक्षण्यात्, तथाहिचैतन्यं बोधस्वरूपमूर्तं च भूतानि च तद्विलक्षणानि, तत्कथमेतेषां परस्परं धर्म्मधम्मिभावः ? नापि चैतन्यमिदं भूतानां कार्यम्, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्याप्ययोगात्, उक्तं च"काठिन्योबोधरूपाणि भूतान्यध्यक्षसिद्धित: । - ६ चेतना च न तद्रूपा, सा कथं तत्फलं भवेत् ?॥” अपि च-यदि भूतकार्यं चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति ?, परिणति - विशेषसद्भावाभावादिति चेत् ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति ?, सोऽपि हि भूतमात्रानिमित्तक एव, ततः कथं तस्यापि क्वचित्कदाचिद्भावः ? अन्यच्च स किंरूपः परिणतिवशेष इति वाच्यम्, कठिनत्वादिरूप इति चेत्, तथाहि - काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानाततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेष इति, तदप्यसत्, व्यभिचारदर्शनात्, तथाहि - अविशिष्टेऽपि कठिनत्वादिविशेषे क्वचिद्भवन्ति क्वचिन्न क्वचिच्च कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूच्छिमा जायन्ते, किञ्च समानयोनिका अपि विचित्रवर्णसंस्थाना दृश्यन्ते प्राणिनः, तथाहि - गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नमेव, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुः, न व भवन्ति, तस्मादात्मान एव तत्तत्कर्म्मवशात्तथोत्पद्यन्ते इति प्रतिपत्तव्यं । स्यादेतत्-तदागच्छन् गच्छन् वा नात्मोपलभ्यते, केवलं देहे सति संवेदनमुपलभ्यते, देहाभावे च भस्मावस्थायां न, तस्मान्नास्त्यात्मा, किन्तु संवेदनमात्रमेवैकमस्ति तच्च देहकार्यं, देहे एव च समाश्रितं, कुड्य चित्रवत्, न चित्रं कुड्यविरहितमवतिष्ठति, नापि कुड्यन्तरं संक्रामति, नागतं वा कुड्यन्तरात्, किन्तु कुड्य एव उत्पन्नं कुड्य एव च विलीयते, एवं संवेदनमपि, तदप्यसत्, आत्मा हि स्वरूपेणामूर्त्तः आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषय:, तदुक्तम्“अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन्नात्मा, नाभावोऽनीक्षणादपि ॥" तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते एव, तथाहि--कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः, उपघातकमुपलभ्य पलायनदर्शनात्, यश्च यद्विषय: प्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकः, तथादर्शनात्, नखल्वन्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रहः शरीर For Private & Personal Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 500