Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 7
________________ ४ नन्दी - चूलिकासूत्रं विहिते नन्दनं नन्दिः प्रमोदो हर्ष इत्यर्थः, नन्देिहेतुत्वात्, ज्ञानपञ्चकाभिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनोऽनेनास्मिवेति वा नन्दिः - इदमेव प्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाच्चाध्ययनेऽपि प्रवर्त्तमानस्य नन्दिशब्दस्य पुंस्त्वम्, 'इः सर्वधातुम्यः' इत्यौणादिक इप्रत्यतः, अपरे तु नन्दीति पठन्ति, ते च 'इक् कृष्यादिभ्य' इति सूत्रादिक्प्रत्ययं समानीय स्त्रीत्येऽपि वर्तयन्ति, ततश्च 'इतोऽक्त्यर्थादि' तिङीप्रत्ययः । सच नन्दिश्चतुर्धा - तद्यथा - नामनन्दि: स्थापनानन्दि: द्रव्यनन्दिः भावनन्दिश्च तत्र नामनन्दिर्यस्य कस्य चिज्जीवस्याजीवस्य वा नन्दिशब्दार्थरहितस्य नन्दिरिति नाम क्रियते स नाम्ना नन्दिर्नामनन्दिः, यद्वा नामनामवतोरभेदोपचारान्नाम चासौ नन्दिश्च नामनन्दिः, नन्दिरिति नामवान्नामनन्दि:, तथा सद्भावमाश्रित्य लेप्यकम्र्म्मादिष्वसद्भावं चाश्रित्वाक्षवराटकादिषु भावनन्दिमतः साध्वादेर्या स्थापना सस्थापनानन्दिः, अथवा द्वादशविधतूर्यरूपद्रव्यनन्दिस्थापना स्थापनानन्दिः, द्रव्यनन्दिर्द्विधा - आगमतो नोआगमतश्च तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य' मिति वचनात्, नोआगमतस्तु त्रिधा, तद्यथा - ज्ञशरीरद्रव्यनन्दिर्भव्यशरीरद्रव्यनन्दिर्शशरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिश्च तत्र यन्नन्दिपदार्थज्ञस्य व्यपगतजीवितस्य शरीरं सिद्धशिलातलादिगतं तद् भूतभावतया ज्ञशरीरद्रव्यनन्दि:, यस्तु बालको नेदानीं नन्दिशब्दार्थमवबुध्यते अथ चावश्यमायत्यां तेनैव शरीरसमुच्छ्रेयण भोत्स्यते स भाविभावनिबन्धनत्वाद्भव्यशरीरद्रव्यनन्दि:, इह हि यद् भूतभावं भाविभावं वा वस्तु तद्यथाक्रमं विवक्षितभूतभाविभावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्धिमुपागतम्, उक्तं च - "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्द्रव्यं तत्त्वज्ञैः सचेतना चेतनं कथितम् ॥" ज्ञशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनन्दिः क्रियाऽऽविष्टो द्वादशविधतूर्यसमुदायः, उक्तं "दव्वे तूरसमुदओ" तानि च द्वादश तूर्याण्यमूनि - " 'भभा मुकुंद मद्दल कडंब झल्लेरि हुडुक्क कंसाला । काहल तलिमा वंसो संखो पणवो य बारसमो ॥" भावनन्दिर्द्विधा - आगमतो नोआगतश्च तत्रागमतो नन्दिपदार्थस्य् ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतः पञ्चप्रकारज्ञानसमुदवः, 'भावम्मि पञ्चनाणाई' इति वचनात्, अथवा पञ्चप्रकारज्ञानस्वरूपमात्रप्रतिपादकोऽध्ययनविशेपो भावनन्दि:, नोशब्दस्यैकदेशवचनत्वात्, अस्य चाध्ययनस्य सर्वश्रुतैकदेशत्वात्, तथाहि-अयमध्ध्र्ययनविशेषः सर्व श्रुताभ्यन्तरभूतो वर्त्तते, तत एकदेशः, अत एव चायं सर्व्व श्रुतस्कन्धाम्भेषु सकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ तत्त्ववेदिभिराभिधीयते । अस्य च मङ्गलस्थानप्राप्तस्य व्याख्याप्रक्रमे पूर्वसूरयो विनेयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन तीर्थकराद्यावलिका आचक्षते । तत आचार्योऽपि देववाचकनामा ज्ञानपञ्चकं व्याचिख्यासुः प्रथमत आवलिका अभिधित्सुरविघ्नेन अध्यापकश्रावक पाठकचिन्तकानामभिलषितार्थसिद्धये 'अनादिमन्तस्तीर्थकरा' इति ज्ञापनार्थं सामान्यतो भगवत्तीर्थकृतस्तुतिमभिधातुमाह मू. ( १ ) Jain Education International जयइ जगजीवजोणीवियाणओ जगगुरू जगानंदो । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 500