Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ मूलं-१ परिशीलनाभ्यासजनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमनम् उक्तं च - ___ "शरीराग्रहरूपस्य, चेतसः सम्भवो यदा। जन्मादौ दुहिनां दृष्टः, किं न जन्मान्तरागतिः? ।।" अथागतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते?, नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात्, परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्तनमिष्यते ततः कथं स एव दोषः?, आह च - "अनुमेयऽस्ति नाध्यक्षमिति कैवात्र दुष्टता? अध्यक्षस्यानुमानस्य, विषयो विषयो न हि॥" अथतज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते?, नखलु यस्याग्निविपया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत् तस्यान्यत्र क्षितिधरादौ धूमालूमध्वजानुमानं, तदप्ययुक्तम्, अत्रापि तज्जातीये प्रत्यक्षवृत्तिमावात्, तथाहि-आग्रहोऽन्यत्र परिशीलनाभ्यासाप्रवृत्तः प्रत्यक्षत एवोपलब्धः, तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते, उक्तं च - "आग्रहस्तावदभ्यासात्, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम्?॥" योऽपि चित्रदृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो, वैषम्यात्, तथाहि-चित्रमचेतनं गमनस्वभावरहितंच, आत्मा चचेतनः कर्मवशाद् गत्यागती चकुरुते, ततः कथं दृष्टान्तदाान्तिकयोः साम्यम्?, ततो यथा कश्चिद्देवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहीभूत्वा ग्रामान्तरेगृहान्तरमास्थायावतिष्ठते, तद्वआत्माऽपि विवक्षिते भवे देहं परिहाय भवान्तरेदेहान्तरमारचय्यावतिष्ठते, यच्चोक्तं- 'संवेदन देहकार्य'मिति, तत्र चाक्षुपादिकं संवेदनं देहाश्रितमपि कथञ्चिद् भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात्, यत्तु मानसंतत्कथम्?, न हितद्देहकार्यं घटते, युक्त्ययोगात्, तथाहि तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपादा समुत्पद्ये अनिन्द्रियरूपाद्वा केशनस्वादिलक्षणात्?, तत्र न तावदाद्यः पक्षः, इन्द्रियरूपात्तदुत्पत्ताविन्द्रियबुद्धिवद्वर्त्तमानार्थग्रहणप्रसक्तेः, इन्द्रियं हि वार्त्तमानिक एवार्थे व्याप्रियते, ततस्तत्सार्थयादुपजायमानं मानसमपि ज्ञानमिन्द्रियज्ञानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताकमेव भवेत्, अथ यदा चक्षुरूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति नशेषकालं, ततः तद्रूपविज्ञानं वर्तमानार्थविषयं, वर्तमाने एवार्थे चक्षुषो व्यापारात्, रूपविषयव्यावृत्त्यभावे च मनोज्ञानं, ततो न तत्प्रतिनियतकालविषयं, एवं शेषेष्वपीन्द्रियेषु वाच्यं, ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः? तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते, इन्द्रियाणां च व्यापार: प्रतिनियत एव वार्त्तमानिकेस्वस्वविषये, ततो मनोज्ञानमपि यदिन्द्रियव्यापाराश्रितंतत ऐन्द्रियज्ञानमिव वार्त्तमानिकार्थग्राहकमेव भवेद्, अन्यथा इन्द्रियाश्रितमेव तद् न स्यात्, उक्तं च "अक्षव्यापारमाश्रित्य, भवदक्षजमिष्यते। तद्वयापारो न तत्रेति, कथमक्षभवं भवेत् ? ॥" अथानिन्द्रियरूपादिति पक्षः, तदप्ययुक्तं, तस्याचेतनत्वात्, नन्वचेतनत्वादिति कोऽर्थः?, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 500