Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ वक्षस्कारः-१ ज्ञप्ति-ज्ञापनं यस्यांग्रन्थपद्धतौज्ञप्तिानं वायस्याः सकाशात्सा जम्बूद्वीपप्रज्ञप्ति, अथवाजम्बूद्वीपं प्रान्ति-पूरयन्ति स्वस्थित्येति जम्बूद्वीपप्राः जगतीवर्षवर्षधराद्यास्तेषांज्ञप्तिर्यस्याः सकाशात्सा जम्बूद्वीपप्रज्ञप्तिरिति सान्वर्थशास्त्रनाम- प्रतिपादनेन जम्बूद्वीपप्रज्ञप्तयाः पिण्डार्थोय दर्शितः, अत एवाभिधेयसून्यतामाकलयन्तस्सन्तोऽत्र प्रवृत्तौ मा मन्दायन्तामित्यभिधेयसूचापि कृतैव, नामनिक्षेपचिन्ता तु द्वितीयानुयोगयोजनायां करिष्यत इति समुदायार्थः ४ । तथैवानुयोगद्वाराणि वाच्यानि, तथाहि-प्रस्तुताध्ययनस्य महापुरस्येव चत्वारिअनुयोगद्वाराणि भवन्ति-उपक्रमो निक्षेपोऽनुगमो नयश्च, तत्र अनुयोजनमनुयोगः-सूत्रस्यार्थेन सह सम्बन्धनं, अथवाऽनुरूपोऽनुकूलोवा योगो व्यापारः सूत्रस्यार्थप्रतिपादनरूपोऽनुयोगः,आहच॥१॥ “अनुजोजणमणुओगो सुअस्स नियएण जमभिहेएण। वावारो वा जोगो जो अनुरूवोऽनुकूलो वा ।।" इति, यद्वा अर्थापेक्षया अणोः-लघोः पश्चाजाततया वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो-व्यापारस्ततसम्बन्दो वाऽणुयोगोऽनुयोगो वेति, आह च॥१॥ “अहाव जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स। अभिधेये वावारो जोगो तेणं व संबंधो ।' त्ति । तस्य द्वाराणीव द्वाराणि-प्रवेशमुखानि, अस्याध्ययनपुरस्याधिगमोपाया इत्यर्थः, पुरदृष्टान्तश्चात्र, यथा हि अकृतद्वारकं पुरपुरमेव, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च स्यात्, चतुर्मूलद्वारंतुप्रतिद्वारानुगतंसुखाधिगम कार्यानतिपत्तये च, एवंजम्बूद्वीपप्रज्ञप्तयध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति एकद्वारानुगतमपि च दुरधिगमं सप्रभेदचतुर्धारानुगतं तु सुखाधिगम कार्यातिपत्तये च स्यादतः फलेग्रहिरोपन्यास इति ५। तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः ६। निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यतेवाऽनेन गुरुवाग्योगेनेत्युपक्रम इतिकरणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनयविनयादित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः-उपक्रमानीतव्याचिख्यासितशास्त्रस्य नामादिभिर्व्यसनमित्यर्थः निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः-निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथनमितियावत्, एवं नयनं नीयतेऽनेनास्मिन्नस्मादिति वा नयः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एकेनैव धर्मेण पुरस्कृतेन वस्त्वङ्गीकार इत्यर्थः ७। - उपक्रमादिद्वाराणामित्थंन्यासे किं प्रयोजनमिति?, उच्यते, न ह्यनुपक्रान्तमसमीपीभूतं निक्षिप्यते न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इतीदमेव क्रमप्रयोजनं, उक्तंच॥१॥ “दारक्कमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्यं । अणुगम्मइ नानत्थं नानुगमो नयमयविहूणो ||"त्ति ८ । तदेवंफलादीन्युक्तानि, साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुविचिन्त्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 564