Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ ८ 118 11 ॥५॥ ॥६॥ ॥७॥ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/ बारसवासस्स तहा अरुणोवायाइ पंच अज्झयणा । तेरसवासस्स तहा उड्डाणसुयाइया चउरो ॥ चउदसवासस्स तहा आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य दिट्ठीविसभावणं तहय ॥ सोलसवासाईसु य एगुत्तरवृड्डिएसु जहसंखं । चारणभावणमहसुविणभावणा ते अगनिसग्गा ।। एगूणवीसगस्स उ दिट्ठीवाओ दुवालसं अंगं । संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स ।। इति, अत्र पञ्चवस्तुकसूत्र दशवर्षपर्यायस्य साधोः भगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्गताय ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे दुर्वाज्ञावशादर्वागपि ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसर इति संभाव्यते, योगविधानसामाचार्य्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वादिति २ । तथेदमुपाङ्गमपि प्रायः सकलजम्बूद्वीपवर्त्तिपदार्थानुशासनाच्छास्त्र, तस्य च सम्यग्ज्ञानद्वारा परमपदप्रापकत्वेन श्रेयोभूतता, अतो मा भूदत्र विघ्न इति तदपोहाय मङ्गलमुपदर्शनीयं यतः|| 9 || "बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । घेत्तव्वो सो सुमहानिहिव्व जह वा महाविज्जा ॥" इति, तच्च त्रिविधं - आदिमध्यावसानभेदात्, तत्र आदिमङ्गलं 'नमो अरिहंताण' मित्यविघ्नतया शास्त्रस्य परिसमाप्तयर्थ, मध्यमङ्गलं 'जया णं एकमेकं चक्कवट्टिविजए भगवंतो तित्थगरा सनुप्पचंति'त्ति तस्यैव स्थैर्याय, अस्य च द्वितीयाधिकारादिसूत्रस्य त्रिभुवनोद्भूतजनजन्मकल्याणकसूचकत्वेन परममङ्गलत्वात्, अन्त्यमङ्गलं तु 'समणे भगवं महावीरे मिहिलाए नगरीए' इत्यादिनिगमनसूत्रे श्रीमन्महावीरनामग्रहणमिति, तस्यैव शिष्यप्रशिष्यादिपरम्परया अव्यवच्छेदार्थं, नन्विदं सम्यग्ज्ञानरूपत्वेन निर्जरार्थत्वात् अथवा "जो जं पसत्थमत्थं पुच्छइ तस्सत्यसंपत्ती" इति निमित्तशास्त्र द्वीपसमुद्राभिधानग्रहणस्य परममङ्गलत्वेन निवेदनादस्य द्वीपप्ररूपणात्मकत्वात् स्वयमेव सर्वात्मना मङ्गलं (लता) किं मङ्गलान्तरोपन्यासेन ?, अनवस्थाप्रसङ्गात्, मैवं, मङ्गलतया हि परिगृहीतं शास्त्र मङ्गलमिति व्यवह्रियते फलदं च भवति, साधुवत्, अन्यथोपहासनमस्कारादेरपि मङ्गलत्वं स्यात्, न हि लोकोऽपि स्वरूपसतां दधिदूर्वादीनां द्रव्यमङ्गलत्वं किन्तु मङ्गलाभिप्रायेण प्रयुक्तानाम्, अन्यथा तद्विषयकदर्शनस्पर्शनादीनां निर्मूलकतापातात्, इह अस्य शास्त्रस्य फलादि निरूपितं तदनुयोगस्य द्रष्टव्यं तयोः कथञ्चिदभेदादिति ३ । 7 अथेदानीं समुदायार्थश्चिन्त्यते, तत्र समुदायः सामान्यत - शास्त्रसङ्ग्रहणीयः पिण्डस्तद्रूपोऽर्थो वक्तव्यः किमुक्तं भवति ? -अवयवविभागनिरपेक्षतया शास्त्रगतं प्रमेयं प्रकटनीयं तच्च वर्द्ध- मानादिवत् यथार्थनामतो भवति, तत्रैव समुदायार्थपरिसमाप्तेः, न तु पलाशादिवदयथार्थनामतो डित्यादिवदर्थशून्यनामतश्च, प्रस्तुते च जम्बूद्वीपप्रज्ञप्तिरितिनाम्नः कः शब्दार्थ इति ?, उच्यते, जम्ब्वा - सुदर्शनापरनाम्नयाऽनाध्तदेवावासभूतयोपलक्षितो द्वीपो जम्बूद्वीपस्तस्य प्रकर्षेण निशेषकुतीर्थिकसार्थागम्ययथावस्थितस्वरूपनिरूपणलक्षणेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 564