Book Title: Agam Sutra Satik 09 Anuttaropapatikdasha AngSutra 09
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/१/१० तथा 'आयंबिलं 'ति शुद्धोदनादि, 'संस' ति संसृष्टहस्तादिना दीयमानं संसृष्टम् 'उज्झियधम्पियं’तिउज्झितं – परित्यागः स एव धर्मः - पर्यायो यस्यास्ति तदुज्झितधर्मिकं 'समणे'त्यादि श्रमणो-निर्ग्रन्थादिः ब्रह्मणः -- प्रतितः अतिथिः - भोजनकालोपस्थितः प्राघूर्णकः कृपणीदरिद्रः वनीपको - यावचकविशेष 'अब्भुजयाए 'त्ति अभ्युद्यताः - सुविहितास्तत्सम्बन्धित्वादेषणाऽभ्युद्यता तया 'पयययापत्ति प्रयतया प्रकृष्टयलवत्या 'पयत्ताए 'त्ति प्रदत्तया गुरुभिरनुज्ञातयेत्यर्थः 'पग्गहियाए 'ति प्रगृहीतया प्रकर्षेणाभ्युपगतया ३५६ अदीनः अदीनाकारयुक्त इत्यर्थः 'अविमनाः' अविगतचित्ता अशून्यमना इत्यर्थः अकलुषः- क्रोधादिकालुष्यरहितत्वात् 'अविषादी' विषादवर्जितः 'अपरितंतयोगी' अविश्रान्तसमाधिः 'जयणघडणजोगचरित्ते त्ति यतनं प्राप्तेषु योगेषूद्यमकरणं घटनंच-अप्राप्तानां तेषां प्राप्त्यर्थं यत्नः यतनघटनप्रधाना योगाः - संयमव्यापारा मनः प्रभृतयो वा यत्र तत्तथा तदेवंभूतं चरित्रं यस्य स तथा ‘अहापज्जत्तं 'त्ति यथापर्याप्तं - यथालब्धमित्यर्थः ' समुदाणं 'ति भैक्ष्यं 'बिलमिवे' त्यादि, अस्यामर्थः यथा बिले पन्नगः पार्श्वसंस्पर्शेनात्मानं प्रवेशयति तथाऽयमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति--अभ्यवहरतीति, 'तवरूवलावण्णे' त्ति तपसा - करणभूतेन रूपस्य - आकारस्य लावण्यं-सौन्दर्यं तपोरूपलावण्यमूद् शुष्कछल्ली - शुष्कत्वक् काष्ठस्य सत्का पादुका काष्ठपादुका प्रतीता 'जरग्गतोवाहण' ति जरत्का-जरती जीर्णेत्यर्थः सा चासावुपानच्चेति जरत्कोपानत् 'अट्ठिचम्मछिरत्ताए' त्ति अस्थीनि च चर्म च शिराश्च-स्नायवो विद्यन्ते ययोस्तौ तथा तद्भावस्तत्ता तया अस्थिचर्म्मशिरवत्तया प्रज्ञायेते यदुत पादावेताविति न पुनर्मांसशोणितवयत्तया तयोः क्षीणत्वादिति 'अयमेयारूवे तवस्त्रवलावणे होत्था से जहानामए' त्ति प्रत्यालापकं द्रष्टव्यं, 'कल' त्ति कलायो धान्यविशेषस्तेषां 'संगलिय' त्ति फलिका मुद्गा माषाश्च प्रतीताः 'तरुणय'त्ति अभिनवा कोमलेत्यर्थः 'मिलायमाणि' त्ति ग्लायन्ती - म्लानिमुपगता 'काकजंघा इव त्ति काकजङ्घा वनस्पतिविशेषः, सा हि परिश्यमानस्नायुका स्थूलसन्धिस्थाना च भवतीति तया जङ्घयोरुपमानम्, अथवा काको- वायसः, कङ्कढेणिकालिके च पक्षिविशेषौ तज्जङ्घा च स्वभावतो निर्मांसशोणिता भवतीति ताभ्यामुपमानमिहोक्तमिति 'कालिपोरि'त्ति काकजङ्घावनस्पतिविशेषर्व मयूरढेणिकालालिके पक्षिविशेषौ अथवा ढेणिकालः- तिड्डुः 'बोरीकरील्लेति' बदली - कर्कन्धूः करीरं प्रत्यग्रं कन्दलं शल्यकी शाल्मकी च वृक्षविशेषौ पाठान्तरेण 'सामकरिल्लेइ वा' तत्र च श्यामा-प्रियङ्गुः 'कडिपत्तस्से 'त्ति कटी एवं पत्रं प्रतलत्वेनावयवद्वयरूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य, उष्टपाद इति वा, करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्तात् भवतीति तेन पुतप्रदेश्य साम्यं, 'जरग्गपाएति' जरद्गवपादः 'उदरभायणस्स' त्ति उदरमेव भाजनं क्षाममध्यभागतया पिठराद्युदरभाजनं तस्य 'सुक्कदिएति वा' इति शुष्कः - शोषमुपगतो धतिःचर्ममयजलभाजनविशेषः 'भजणयभल्ले' त्ति चणकादीनां भर्जनं पाकविशेषापादनंतदर्शयत्कभल्लंकपालं घटादिक परं तत्तथा 'कट्ठकोलंबएति' शाखिशाखानामवनतमग्रं भाजनं वा कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्ठकोलम्बः परिदृश्यमानावनतहदयास्थिकत्वात् 'एवामेवोदरं सुकं लुक्ख निम्मंस' मित्यादि पूर्ववत्, 'पांसुलिकडयाणं' ति पांशुलिकाः - पावस्थीनि तासां कटको-कटौ For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34