Book Title: Agam Sutra Satik 09 Anuttaropapatikdasha AngSutra 09
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ वर्ग:-३, अध्ययनं-9 ३५७ पांशुलिकाकटी तयोः 'धासयावलीइव' त्ति स्थासका दर्पणाकृतयः स्फुरकादिषु भवन्ति तेषामुपर्युपरिस्थितानामावली -पद्धतिः स्थासकावली देवकुलामलसारकाकृतिरितिभावः, 'पाणावली इव' त्ति पाणशब्देन भाजनविशेष उच्यते तेषामावली या सा तथ 'मुंडावलि 'त्ति वा मुण्ड: स्थाणुविशेषा येषु महिषीवाटादी परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावलीपङ्कितर्या सा तथा, तथा 'पिट्टकरंडयाणं' ति पृष्ठवंशाभ्युन्नतप्रदेशानां 'कन्नावली' ति कर्णा मुकुटादीनां तेषामावली-संहतिर्या सा तथा 'गोलावली' ति गोलका - वर्तुलाः पाषाणादिमयाः 'वट्टय'त्ति वर्त्तका जत्वादिमया बालमरणकविशेषाः 'एवामेव 'त्यादि पूर्ववत् 'उरकडयस्स'त्ति उरो-उदयं तदेव कटकमुरः कटकं तस्य 'चित्तकट्टरेइ व 'त्ति इह चित्तशब्देन किलिञ्जादिकं वस्तु किञ्चिदुच्यते तस्य कट्टखण्डं तथा 'वीयणपत्ते' त्ति व्यजनकंवंशादिदमयं वायूदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं 'तालियटपत्तेति त्ति तालवृन्तपत्रंव्यजनपत्रविशेषः एमिश्चोपमानमुरसः प्रतलतयेति 'समिसंयगलिय'त्ति शमी वृक्षविशेषस्तस्य सङ्गलिका - फलिका, एवं बाहाया अगत्थिओ य वृक्षविशेषाविति 'सुक्कच्छगणिय'त्ति छगणिया - गोमयप्रतरः वटपत्रपलाशपत्रे प्रतीते 'करगगीवाइ व' त्ति वार्घटिकाग्रीवा कुण्डिकाआलुका 'उच्चत्थवणएऐइ व 'त्त उच्चस्थापनकम् एभिस्त्रिभिरुपमानैर्गीवायाः कृशतोक्तेति, 'हणुयाए' त्ति चिबुकस्य 'लाउयफलेइ व 'त्ति अलाबुफलं तुम्बिनीफलं - 'हकुवफले 'त्ति हकुवीवनस्पति विशेषस्तस्य फलमिति 'अंबगट्टियाइ व'त्ति आम्रकस्य- फलविशेषस्यास्थीनि - मज्जा आतपे दत्तानि शुष्कानीत्यादि सर्वमनुसर्त्तव्यं 'सुक्कजलोपाइ व 'त्ति जलौका - द्वीन्द्रियजलजन्तुविशेषः 'सिलेसगुलिय' ति श्लेष्मणो गुटिका 'अलत्तगुलिय'त्ति अलक्तको लाक्षारसः, एतानि हि वस्तूनि शुष्कानि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्ठोपमानतयोक्तानि, जिहावर्णकः, 'अव्वगपेसिय'ति आम्रं प्रतीतं तस्य पेशिका-खण्डम्, अम्बालकं - फलविशेषो मातुलङ्गं ब्रीजपूरकमिति, 'वीणाछिड्डे' त्ति वीणारन्ध्र 'वीसगच्छिडई व 'त्ति वद्धीसको वाद्यविशेषः 'पासाइवतारिगाइव' त्ति प्रभातसमये तारिका - ज्योतिः ऋक्षमत्यर्थः सा हि स्तोकतेजोमयी भवतीति तया लोचनमुपमितमिति, पाठान्तरेण प्राभातिकतारा इति २ ‘मूलछल्लीइ वत्ति मूलकः - कन्दविशेषस्तस्य छल्ली - त्वक् सा हि प्रतला भवतीति तयोरुपमानं कर्णयोः कृतं, 'वालुंकछल्ली' वालुकं -चिर्भटं 'कारेल्लाछल्ली' ति कारेल्लकं वल्लीवशेषफलमिति, क्वचित्र नीतिपदं दृश्यते न चावगम्यते, 'धन्नस्स सीस' त्ति 'धन्नस्स णं अनगारस्स सीसस्स अयमेयारूवे तवरूवलावन्ने होत्था' 'तरुणगलाउए व 'त्ति तरुणकं- कोमलं 'लाउयं' अलाबु तुम्बकमित्यर्थः 'तरुणगएलालुय'त्ति आलुकं - कन्दविशेषः तच्चानेकप्रकारमिति विशेषपरिग्रहार्थमेला लुक - मित्युक्तं 'सिण्हाएइ व 'त्ति सिस्तालकं फलविशेषो यत्सेफालकमिति लौके प्रतीतं तच्च तरुणं यावत्करणात् 'छिन्नमुण्हे दिन्नं सुक्कं समाणं मिलायमाणं चिट्ठइ' त्ति ६श्यम् ‘एव’त्ति ‘एवामेव धन्नस्स अनगारस्स सीसं सुक्कं लुक्खं निम्मंसं अट्टिचम्मछिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए' त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवरमुदरभाजनकर्णजिहौष्ठवर्णकेष्वस्तीति पदं य भाण्यते अदि तु 'चम्मछिराए पण्णायइति वलव्वमिति पादाभ्यागारभ्य मस्तकं चावद्वर्णितो धन्यकमविः । पुनस्तथैव प्रकारान्तरेण वर्णयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34