________________
NOTES
दिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानम संभावयताऽपत्राजनार्थं प्रश्नः कृत इति । 'सरिसवय' त्ति एकत्र सदृशवयसः अन्यत्र सर्षपाः सिद्धार्थकाः । 'मास' त्ति एकत्र माषो दशार्धगुजामानः सुवर्णादिविषयः अन्यत्र माषो धान्यविशेषः उडद इति लोके रूढः । 'कुलत्था' त्ति एकत्र कुले तिष्ठन्ति इति कुलत्थाः, अन्यत्र कुलत्था धान्यविशेषः । सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासार्थं कृतः इति । ' एगे भवं ' ति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगो द्विजेन कृतः। यावच्छब्दात् ' दुवे भवं ' ति गृह्यते । द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति वुद्धया पर्यनुयोगो विहितः । अत्र भगवान् स्याद्वादपक्षं निखिलदोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि एकोऽप्यहं कथं ? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात् न तु प्रदेशार्थतया प्रदेशार्थतया अनेकत्वात् ममेत्यवादीनामेकत्वोपलम्भो न बाधकः, ज्ञानदर्शनार्थतया कदाचित द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथाहि एको हि देवदत्तादिपुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान् लभते । ' तहा अक्खए अव्वए निचे अवट्ठिए आय' त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात् असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतो व्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थं, व्यवच्छिन्नसंशयः संजातसम्यक्त्वः ।
185
सावगधम्मं पडिवज्जित्ता, the duties of a श्रावक in Jainism. are twelve in number; they consist of five Anuvratas or lesser vows and seven Sikshāpadas or disciplinary vows. The vows observed by monks are called mahāvratas and in contrast those observed by an upasaka are said to be ay or lesser