Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ उपोद्घातः अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षरुन्मीलितं येन तस्मै श्रीगुरवे नमः // अद्वैतदीपिकायाः प्रथमे परिच्छेदे श्रीनसिंहाश्रमस्वामिभिः त्वंपदार्थः साक्षी निरूपितः / “त्वंपदार्थविवेकाय सन्यासस्सर्वकर्मणाम्" इति स्मृतिदर्शनात् / तत्र च त्वंपदार्थः शरीरेन्द्रियान्तःकरणेभ्यो भिन्नः शुद्धः इति निरधारि। इदानीं शुद्धस्य त्वंपदार्थस्य ब्रह्मणाऽभेदः प्रतिपाद्यते / नाहमीश्वर इति प्रत्यक्ष तावत् नाभेदविरोधि अहङ्कारविशिष्टस्य मायाविशिष्टेनोपहितेन वा भेदस्यास्माभिरङ्गीकारात् / अप्रत्यक्षप्रतियोगिकभेदोऽपि प्रत्यक्षग्राह्यः स्तम्भः पिशाचो नेति प्रत्यक्षस्य स्वीकाराद् इत्याह परः। वस्तुतस्तु नेदमङ्गीकर्तुं शक्यं प्रतियोगिनोऽप्रत्यक्षत्वात् / अपितु अनुमानमिदमिति बहवः। द्वा सुपर्णा सयुजा सरवाया इति श्रुतिरपि न जीवेश्वरभेदे मानम्। द्वौ इति प्रयोगस्य औपाधिकभेदेनाप्युपपादनदर्शनात्, यथा रामपरशुरामो अयुध्येतां इत्यादावेकविष्णोरवतारयोरपि / अपि च द्विशब्दो न भेदपर्यायः, अपि तु द्वित्वस्य' भेदव्याप्यत्वात् श्रुतार्थापत्तिगम्यो भवति भेदः, सा च प्रत्यक्षश्रतिविरोध बाध्यते तत्त्वमसीति प्रत्यक्षश्रुत्याऽभेदबोधनात् / अपि च अभेदस्य प्रत्यक्षादिनाऽप्राप्तत्वात् अभेदनिषेधोप्रसक्तप्रतिषेधो भवेत् / भेदस्यापूर्वत्वाभावेन निष्प्रयोजनत्वेन च श्रुतितात्पर्यविषयत्वाभावाच्च / वस्तुतस्तु भेद एव दुनिरूपः पटे यो घटभेदस्तस्य पटाद्भिन्नत्वे तभेदोऽपि भिन्न आपद्यतेति भेदानवस्था / भेदस्याधिकरणीभूतपटस्वरूपत्वे कुत्रापि भेदो न सिद्धयेत् / 'भेदश्रुतेः' भेदव्यपदेशात्" इत्यादिसूत्राणि तु उपासनप्रकरणे उपास्यं ब्रह्म न जीवः, भेदानुमापकानामुपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वादिधर्माणां कीर्तनान् न जीव उपास्य इति साधयितुं प्रवृत्तानि / एवमेव "अनीशया शोचति मुह्यमानः' इति श्रुतिरपि ईश्वरत्वाभावात् ईश्वरत्वं स्वस्यैवेति ज्ञानाभावाद् इत्यर्थकम् / सर्वान् कामान् सह अश्नुते ब्रह्मणा सह' इति च ब्रह्मरूपेण सर्वान् कामान् सह योगपद्येनाश्नुते इत्यर्थकम् / अंशा नानाव्यपदेशात् इति सूत्रमपि नेकदेशार्थकमपितु प्रतिबिंबवत् ईश्वराभिन्न इत्यर्थे तात्पर्यकम् 'आभास एव च' इत्यादिसूत्रस्वारस्यात् इति निर्णयः कृतः। तृतीयपरिच्छेदे तु तत्पदार्थस्येश्वरस्य स्वरूपं विविच्यते / प्रथमं तावत् ईश्वरः नानुमानगम्यः किन्तु केवलमुपनिषदेकवेद्य इति निरूपयति / न्यायशास्त्रोक्तस्य क्षित्यकुरादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानस्य

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 486