Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 282
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३२], मूलं [८८...] / गाथा ||११५६-१२६६/१२४७-१३५७||, नियुक्ति : [५२२...५२९/५१९-५२६], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [८८...] गाथा कम ||११५६१२६६|| श्रीउत्तरा कामो भजते, रागद्वेषौ कर्मवीज, मोहप्रभवं कर्म, कर्म च जातिमरणस्य मूलं, जातिमरणं दुःखमूल, रागद्वेषौ मोहश्च यथा उद्धियते प्रमादवजेनं | तमुपायं वक्ष्ये, रसा ते कामं न निषेवणीया, आसविता दीप्तिकरा भवन्ति, प्रीणितं कुर्वन्तीत्यर्थः, प्रीणितं च कामा समभिद्रवन्ति, दुमं यथा स्वादुफलं हि पक्षिणः, यथा दवाग्निः प्रचुरेधनः समारुतो नोपशमं गच्छति, तथेन्द्रियाग्निरपि प्रकामभोजने शमं न* गच्छति, विविक्तशय्यासनयंत्रितानां ओमासणाणं दमितेन्द्रियाणां रागादयो नाभिभवन्ति चित्तं, पराजितो व्याधिरिवौषधीभिः प्रकृत्य ये इन्द्रियाणां विषया मनोज्ञा न तेषु रागं करोति, अमनोज्ञेषु च द्वेष, तदाऽसौ समो भवति, चक्षु रूपं गृह्णाति, रूपेणापि गह्यते ॥२७६॥ चक्षुः, रूपेषु यो गद्धिमुपैति तीबांस शीघ्रमेव विनश्यति, आलोकलोलो यथा पतंगः, रूपानुगतोऽसौ चराचरप्राणिनो हिनस्ति, | तस्माद्रागानुगतस्य परिग्रहो दोषः, यस्य जायते परिग्रहादत्ताहारित्वं ततो मृषावादः, एवं रागद्वेषानुगतो बहुकर्मसंचयो भवति, रूपाद्विरको विशोको भवति, दुःखौघपरंपरेण च न लिप्पते, जलेन वा पद्मिनीपत्रं, एवं श्रोत्रघ्राणजिह्वास्पर्शा, विनाशमागच्छति र इहलोके परलोके च, इहलोके तावत् शब्दान् मृगो घ्राणान्मधुकरः मच्छो जिह्वया गजो स्पर्शन, इहलोक एवं विनाशमागच्छन्ति, शनिश्चयेन न ते दोषमुत्पादयन्ति, किन्तु यस्तेषु राग द्वेषं वा करोति स वध्यते, एवं क्रोधादयोऽपि कर्मबन्धहेतवो भवन्ति, यः पुनर्विरक्तभावः स कर्मबन्धेन न लिप्यते, ततः शुभाध्यवसायिनः क्षपकश्रेण्यनुप्रवेशः,ततः क्रमेण मोहनीयज्ञानावरणीयदर्शनावरणी-1 यांतरायेषु क्षयं गतेषु केवलं-सम्पूर्ण ज्ञानमुत्पद्यते, तत आयुषः क्षयात् सादिकमनन्तमच्याबाधं निर्वाणसुख प्राप्नोति, एवं अनादि- २७६॥ | कालप्रभवस्य मोक्षो व्याख्यातः, येन अत्यन्तसुखिनः सचा भवन्ति । इति ब्रवीमि, नयाः पूर्ववत्।। समाप्तं द्वात्रिंशत्तममध्ययन।। उक्तं द्वात्रिंशत्तम, इदानीं त्रयविंशत्तम उच्यते, तस्य कोऽभिसम्बन्धी, द्वात्रिंशनमे प्रमादोऽभिहितः, त्रयस्त्रिंशत्तमे कर्मा दीप अनुक्रम [१२४७१३५७] अध्ययनं -३२- परिसमाप्तं अत्र अध्ययन -३३- “कर्मप्रकृति" आरभ्यते [281]

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291