Book Title: Aagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ आगम (३० - वृ) प्रत सूत्रांक ॥१४॥ दीप अनुक्रम [१४] “गच्छाचार” - प्रकीर्णकसूत्र- ७ (मूलं+वृत्ति:) - मूलं ||१४|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ३०-वृ], प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः देसं० ॥ 'देश' मालवकादिकं 'क्षेत्रं' रुक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धप्राघूर्णादियोग्यं द्रव्यं | दुर्भिक्षादिकालं च ज्ञात्वा 'वस्त्रं' आचाराङ्गाद्युक्तविधिना चीवरं 'पात्रं' पतग्रहादिकं 'उपाश्रयं' स्त्रीपशुपण्डकवर्जितमुनियोग्यालयं संगृह्णीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके - आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वोत्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति, तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं चशब्दात्साध्वीवर्ग च नतु हीनाचारवर्ग, तथा सूत्र - गणधरादिवद्धं तस्यार्थो - निर्यु|क्तिभाष्य चूर्णिसङ्ग्रहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थं 'निभालयति' जिनोपदेशेन चिन्तयतीत्यर्थः, चशब्दात्सुविनीतविनेयवर्ग जिनगणधराज्ञया पाठयति, अविनीतविनेयं प्रति नार्पयति प्रायश्चित्तापत्तेः एवंविध आचार्यो मोक्षमार्गवाहकः कथितः ॥ १४ ॥ अथ मोक्षमार्गभञ्जकः कथ्यते संगोबरगहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ।। १५ ।। बालाणं जो उ सीसाणं, जीहाए उवर्लिए । न सम्ममग्गं गाहेइ, सोसूरी जाण वेरिओ ॥ १६ ॥ संग० ॥ सङ्ग्रहं-ज्ञानादीनां सच्छिष्याणां वा संग्रहणं, उपग्रहं च तेषामेव भकश्रुतादिदानेनोपष्टम्भनं 'विधिना' उत्सर्गापवादप्रकारेण न करोति स्वयं प्रमादमदिरामस्तत्वेन चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयति यः कश्चित् 'गणी' आचार्याभासः, तथा श्रमणं च श्रमणी 'दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयं चरे जयं चिट्ठे' इत्यादिरूपां अथ मोक्षमार्गभञ्जकः कथ्यते ~14~ मोक्षभञ्जकः गा. १५-१६ ५ १० १३

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91