Book Title: Aagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||63||
दीप
अनुक्रम
[७३]
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
-
मूलं ||७३ ||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
वद्धयोगृहश्रेण्योरत्र पर्यटति, ६ तथा शम्बूकः शङ्खस्तद्वत् या वीथिः सा शम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात् शङ्खावर्त्तया परिभ्रमणभन्या भिक्षां गृह्णन् क्षेत्रवहिर्भागमागच्छति साऽभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रवहिर्भागात्तथैव भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका ८, तथा श्रीवीरस्योदुम्बरविषयोऽन्योऽपि स्वपरग्रामे गृहसङ्ख्याविषयः क्षेत्राभिग्रहः २, अमुकवेलायां मया भिक्षार्थं गन्तव्यमिति कालाभिग्रहः ३, तथा गायन् रुदन् अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कृतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रहः ४ इति ॥ ७३ ॥ मुणि नाणाभिग्गह दुक्करपच्छित्तमणुचरंताणं । जायह चित्तचमकं देविंदाणंपि तं गच्छं ॥ ७४ ॥ मुoि || 'मुनीन' साधून 'नानाऽभिग्रहं' पूर्वोकलक्षणं दुष्करप्रायश्चित्तं चानुचरतो दृष्ट्वेति गम्यते 'जायते' उत्पद्यते चित्ते - मनसि चमत्कार:- आश्चर्य चित्तचमत्कारः केषां ? - देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः । तत्र प्रायश्चित्तं दशधा - आहारादिग्रहणोच्चारस्वाध्यायभूमिचै त्यय तिवन्दनार्थं पीठफलकप्रत्यर्पणार्थं कुलगणसङ्घादिकार्यार्थ च हस्तशताद्वहिर्निर्गमे आलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणं तेनैव शुद्धिः १, समितिगुष्ठिप्रमादे गुर्वाशातनायां विनयभने इच्छाकारादिसामाचार्यकरणे लघुमृषावादादत्तादानमूर्च्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकपाय विषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति न गुरुसमक्षमालोच्यते इति भावः २, सहसाऽनाभोगेन वा संभ्रमभयादेर्वा सर्वनतातिचारेषु उत्तरगुणातीचारेषु वा दुश्चिन्तितादिषु कृतेषु वा मिश्र प्रायश्चित्तं यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्त इति भावः ३, पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा
~48~
आलोचनादिकारी गच्छः मा. ७४
५
१०
१४

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91