________________ RRRRRRRRRRRESS तदेतदिति-तत्तस्मात्पूर्वोक्तनवस्वरूपचिन्तनात् / खलु निश्चयेन / कृतधियः कृता ज्ञानध्यानसंयमादिना विमलसूमबोधवत्तया निष्पादिता धीर्बुधियैस्ते तथाजूताः सन्तः / जवस्वरूपानुध्यानं जवः संसारस्तस्य यत् स्वरूपं स्वन्नाव-18 स्तस्य यदनुध्यानं चिन्तनं विचारणमिति यावत् तत् नवस्वरूपानुध्यानं / ध्यातॄणां शमसुखनिदानं शमः सर्वविपरहितत्वेन शान्तस्वजावस्तन्मयं यत्सुखमानन्दस्तस्य निदानं मूलकारणं / तथा जगदलयदानं जगतां त्रिनुवनवर्तिप्राणिनामनयं जयाजावस्तस्य दानं वितरणरूपं / नाषन्ते नवस्वरूपध्यानज्ञातारः प्रवदन्ति / तस्य किं फलं ? तदाह-यस्मिन् नवस्वरूपानुध्याने / स्थिरीजूते मनसि निश्चलतां गते सति / विधुकिरणकर्पूरविमला विधुश्चन्मस्तस्य ये किरणा रश्मयः, कर्पूरश्च घनसारस्ततिमला निर्मला या / यशःश्रीः यशो मोक्षः कीर्तिश्च तस्य तद्रूपा वा या श्रीः लक्ष्मी सा / जिनसमयतत्त्वस्थितिविदां जिनाः सर्वविदोऽर्हन्तस्तेषां यः समयः सिधान्तस्तस्मिन् तस्य वा यानि तत्त्वानि जीवादिनवपदार्थप्रतिपादकवाक्यानि तेषां या स्थितिः स्याहादशैट्या पदार्थस्वरूपे प्रतिनिवेशस्तां विदन्ति जानन्ति ये ते तथा तेषां / प्रौढा प्रवर्धमाना / स्याजायते / अत्र श्लोके 'यशःपदेन यशोविजय' इति का स्वनामसूचना कृता वेदितव्या इत्यर्थः॥१०॥ सो क्वार्थगंजीरवाणीयं सुमन्दधीरहं क्व च / गुरुप्रसादतः सद्यः प्रबन्धः प्रथमोऽजनि॥१॥ इति श्रीतपागवगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदांजोरुहपर्युपासनापरागमधुखिहा पंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दनावोक्किटीकायां प्रथमः प्रबन्धः॥१॥