________________ श्रध्यात्म सार: सटीक नाराचास्तैः / हास्यां जवरणमौ / धर्मकटकं धर्मों ब्रह्मव्रतादिकस्तस्य कटकं परानीकजयहेतुजूतशुलजावनादिसैन्यं / प्रथमवधः निहतं नितरां समूलं हतं विनाशितं / ततः किं जातं ? बहुलैरतिप्रचुरैः / रागरुधिरै रागो वनिताद्यनिष्वंगरूपपरिणामस्तपैः शोणितैः। हृद्देशा हृन्मानसं तस्य देशाः प्रदेशाः। विलिप्ता रक्ता जाताः, रागरूपरुधिरप्रवाहैः पूरिता इत्यर्थः। तथा क्रूरा रोषस्वजावाः / व्यसनशतगृध्रा व्यसनानि कष्टानि तेषां शतानि शतसंख्यापरिमाणं तद्रूपा ये गध्राः मांसाहा-18 रिपक्षिविशेषाः / ऊर्व उपर्युपरि मस्तकादिके। ब्रमन्स्यटन्ति / इति // ए॥ जवे प्राणिनामपूर्व ग्रहिखत्वं वर्तत इति चिन्तनीयतयाहहसन्ति क्रीमन्ति क्षणमथ च खियन्ति बहुधा, रुदन्ति क्रन्दन्ति क्षणमथ विवादं विदधते। पलायन्ते मोदं दधति परिनृत्यन्ति विवशा, नवे मोहोन्मादं कमपि तनुनाजः परिगताः ॥ए॥ हसन्तीति-नवे संसारे / तनुलाजः प्राणिनः / कमपि वक्तुमशक्यस्वरूपमपूर्वमिति यावत् / मोहोन्मादं मोहेन य उन्मादो मत्तता तं / परिगताः प्राप्ताः सन्तः। दृश्यन्त इति शेषः / किं कुर्वन्तीत्याह-विवशाः पराधीना मोहाधीनाः सन्त इति यावत् / क्षणं स्तोककालं हसन्ति सनिमित्तं निनिमित्तं वा विकसितमुखकपोखनेत्रा भवन्ति / श्रथ क्षणं क्रीमन्ति कामक्रीमादिविनोदिनो जवन्ति / अथानन्तरं क्षएं बहुधा खिद्यन्ति नानाविधमनोवाकायारतिनिः दैन्ययुक्ता जवन्ति / हणं रुदन्ति रोदनं कुर्वन्ति / क्षणं क्रन्दन्ति निरन्तरमनुपातेन बृहत्तरशब्देन पूरकारं कुर्वन्ति / अथानन्तरं क्षणं विवादं धनादिनिमित्तं कलहं। विदधते रचयन्ति / क्षणं पसायन्ते सजयमितस्ततो नश्यन्ति / क्षणं मोदं दधति // 3 //