________________ निवेश्य चित्तं संस्थाप्य / तेषां नयानां / दिमढतां दिग्व्यामोहं / हरते यथास्थाननियोजनेन निवारयति / तस्य प्रोक्तलक्षणस्य / एव निश्चयेन / विजयिनो विजयवतः कुन्देन्प्रतिम कुन्दं कुन्दतरुपुष्पं,इन्दुश्च चन्छः, तयोः प्रतिमं तुल्यं विमलमिति यावत् / यशः कीर्तिः। संवर्धते प्रवर्धमानं नवति। यशतिपदेन यशोविजयग्रन्धकार इति सूचितमित्यर्थः // 11 // ॥इति जिनमतिस्तुत्यधिकारः॥ अध्यात्मरत्नजननी विशदात्मदृष्टिर्यत्रैकतादिनयजंगतरंगितास्ति / / षष्ठप्रबन्धजलधौ फलकाजवृत्तिरेषास्तु जव्यनिवहे जवतीरदात्री // 1 // इति श्रीतपागलगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदांजोरुहपर्युपासनापरागमधुलिहा पंमितगंजीरविजयग बिना कृतायामध्यात्मसारशब्दलावोकिटीकायां षष्ठः प्रबन्धः॥