SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ विध्युद्यतः। वेतालकोपक्रमो वेतालो जूताविष्टमृतकस्तस्य यः कोपः क्रोधस्तस्य क्रमो गतिवेगरूपो जवति, धर्मधनापहारित्वात् / अयमनन्तरोक्तप्रकारः / तत्त्वप्रसिद्ध्यर्थिनां तत्त्वं परमार्थस्तस्य या प्रसिद्धिर्ज्ञानं तयाऽर्थः प्रयोजनं सोऽस्ति येषां तेषां / सर्वहितावहे सर्वस्य हितप्रापके / जिनमते जिनागमे नैवास्तीत्यर्थः॥२०॥ अथ स्वमानसं जिनागमेऽत्यन्तलीनं दर्शयतिवार्ताः सन्ति सहस्रशः प्रतिमतं ज्ञानांशबझक्रमाश्चेतस्तासुन नःप्रयाति नितरां लीनं जिनेन्डागमे। नोत्सर्पन्ति खताः कति प्रतिदिशं पुष्पैः पवित्रा मधौ तान्यो नैतिरतिं रसालकलिकारक्तस्तु पुंस्कोकिलः॥ वार्ता इति-प्रतिमतं मतं मतं प्रति।शानांशबझक्रमा ज्ञानस्यांशो खेशोऽपूर्णता तेन बद्धो रचितः क्रमोऽनुक्रमोयासां ताः / सहस्रशः सहस्रैः संख्येयाः। वार्ता वृत्तान्तविशेषाः / सन्ति विद्यन्ते / तथापि जिनेन्त्रागमे जिनेश्वरसिधान्ते / नितरामत्यन्तं / सीनं मग्नं / नोऽस्माकं / चेतो मनः / तासु मतवार्तासु / न प्रयाति नैव गच्छति / दृष्टान्तमाह-मधौ वसन्तौ / पुष्पैः कुसुमनरैः / पवित्राः प्रोज्वलाः / लता वलिश्रेणयः / प्रतिदिश दिशं दिशं प्रति / कति कियन्त्यः / नोत्सर्पन्ति पुष्पर्धिसमृडा न भवन्ति / अपि तु सर्वा अपि नवन्तीत्यर्थः। तु तथापि / रसालकलिकारक्तो रसाल याघस्तस्य कलिका मञ्जर्यस्तासु रक्को रञ्जितचित्तः / पुस्कोकिलः पिकखगः / तान्यः पूर्वोक्तखताच्यः / रति प्रीति / नैव एति न प्रामोतीत्यर्थः॥२०५॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy