SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ कश्चिद्भूयात् कृतापराधानां कर्मबन्धकर्तेश्वरोऽस्तीत्याशंक्याहजन्तूनां सापराधानां बन्धकारी न हीश्वरः / तइन्धकानवस्थानादबन्धस्याप्रवृत्तितः // १६ए॥ जन्तूनामिति–सापराधानां अपराधेनेश्वरेऽनक्तिरूपेण सह वर्तन्त इति सापराधास्तेषां / जन्तूनां प्राणिनां / ईश्वरो | जगत्कर्ता विष्णुः / बन्धकारी कर्मबन्धसंपादकः। न हि स्यात् / कुतः 1 तद्वन्धकानवस्थानात् तस्य कर्मणो बन्धको बन्धकारी तस्यानवस्थानात् नियतकारणकार्यालावादिबहुदोषाघ्रातत्वात् / तदपि कुतः ? यतः अबन्धस्य बन्धरहितस्य / श्रप्रवृत्तितः प्रवृत्तेरनावतः, अक्रियत्वादीश्वरस्य बन्धहेतुत्वं नोत्पद्यत इत्यर्थः॥ १६ए॥ ननु साक्षाद्वन्धकारी न नवति, परं त्वीश्वरो जीवानां प्रवृत्तौ प्रेरकोऽस्तीत्याशंक्याह| न चाज्ञानप्रवृत्त्यर्थे ज्ञानवन्नोदना ध्रुवा / श्रबुद्धिपूर्वकार्येषु स्वप्नादौ तददर्शनात् // 17 // न चेति-अज्ञानप्रवृत्त्यर्थे अज्ञानानामज्ञानवतां प्रवृत्तावप्रवृत्तानां प्रेरणयाप्रावर्तनं तदेवार्थःप्रयोजनं तस्मिन् / ज्ञानवन्नोदना ज्ञानवत ईश्वरस्य नोदना प्रेरणा / ध्रुवाऽवश्यं / न च नैवास्ति / कुतः? यतः स्वप्नादौ स्वप्नो निभावशे मनोघ्रान्तिः स आदिर्यस्य, आदिपदान्मत्तमूर्वितादयो ग्राह्याः, तस्मिन् / अबुद्धिपूर्वकार्येषु नास्ति बुद्धिर्विचारपूर्विका कर्तव्यता येषु कार्येषु तेषु / तददर्शनात् तस्याज्ञानवतःप्राणिनःप्रेरणाया श्रदर्शनात् अविलोकनात् / यदि जाग्रत्कार्येषु ईश्वरप्रेरणेष्टा तर्हि अजाग्रत्कार्येष्वन्यस्य कस्यचित् प्रेरकत्वेन नवितव्यं, तत्तु न दृश्यत इत्यर्थः // 170 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy