________________ सरकार रूपता चेतनस्य जवति / तु पुनः। यत् स्वसत्तास्थं / कहपनातीतं सर्वपरसंगवर्जितं रूपमात्मनो निजस्वरूपं वर्तते / तत्तु तद्रूपं तु / श्रकापकः कट्पनातीतो ज्ञानवैराग्यवान् शुशात्मा / पश्यति विलोकयतीत्यर्थः॥ 11 // कल्पनामोहितो जन्तुः शुक्लं कृष्णं च पश्यति / तस्यां पुनर्विलीनायामशुक्लाकृष्णमीदते // 12 // कापनेति-जन्तुःप्राणी। कटपनामोहितो रागादियोजनया व्याकुलीनूतः। शुक्खं कृष्णं च पश्यति शुक्ल शुधमुज्वलमिति यावत्, कृष्णं मलमलिनं पश्यति विलोकयति / च पुनः तस्यां कल्पनायां / विलीनायां विनष्टायां सत्यां / श्रशुक्लाकृष्णं वर्णातीतशुधस्वरूपं नीरागवान पश्यतीत्यर्थः // 12 // अथ स्तुतिस्वरूपदर्शनतः पुण्यपापाच्यामात्मनो भिन्नत्वमाहतध्यानं सा स्तुतिर्नक्तिः सैवोक्ता परमात्मनः / पुण्यपापविहीनस्य ययूपस्यानुचिन्तनम् // 153 // | तदिति-परमात्मनः सत्यब्रह्मरूपात्मनः तत वक्ष्यमाणलक्षणं / ध्यानमेकाग्रप्रणिधान केयं / तथा सा वह स्वरूपा / स्तुतिः स्तवना शेया / तथा सैव वक्ष्यमाणस्वरूपैव / नक्तिः सेवा प्रोक्ता / किं तक्तरूपं त्रिविधमित्यत थाह-यत् हृदयस्थस्य पुण्यपापविहीनस्य पुण्यपापाच्यां संबन्धवर्जितस्य / रूपस्य चिदानन्दस्यात्मनः परमनिरञ्जनस्वजावस्य / अनुचिन्तनं अनु सदृशं चिन्तनं ध्यानं संस्मरणं / तदेव पूर्वोक्तं सर्व शेयमित्यर्थः // 13 // शरीररूपलावण्यवप्रछत्रध्वजादिभिः / वर्णितैर्वीतरागस्य वास्तवी नोपवर्णना // 14 // R-ENCECCASSAGAR