________________ परिक्ष्यो विशिष्टविनाशस्तस्मिन् जाते सति / श्रात्मा जीवः / शुषस्वजावानां निजविमलज्ञानादिस्वरूपाणां / जननाय / / निष्पादनाय प्रवर्तते व्यापारवान् भवति, न तु गुणहान्यै इत्येवमेष मन्यते इत्यर्थः॥ 7 // एतौ वदयमाणश्लोकौ वर्तमानक्षणनावप्ररूपणपरौ शेयावित्येतावाहचित्तमेव हि संसारो रागादिक्लेशवासितम् / तदेव तैर्विनिर्मुक्तं जवान्त इति कथ्यते // 3 // चित्तमिति-हि निश्चितेन / रागादिक्केशवासितं रागो जीवस्य क्वचिदजिष्वङ्गपरिणामसंपादको मोहनीयकर्मविशेषः स श्रादिर्यस्य, आदिपदाद्वेषादयो ग्राह्याः, स चासौ क्लेशश्च :खं तेन वासितं नावितं यत्तत् / चित्तं ज्ञानमन्तःकरणं वा / एवोऽवधारणे / तेन तद्रूपमेव तदेव वा न त्वन्यत् / संसारो जवोऽस्ति / तदेव चित्तमेव / तैः क्लेशैः / विनिर्मुक्त सर्वाशैः परिवर्जितं / जवान्तो मोदः / इत्येवं / कथ्यते प्रोच्यते इत्यर्थः॥ 03 // यश्च चित्तक्षणः क्लिष्टो नासावात्मा विरोधतः / अनन्यविकृतं रूपमित्यन्वर्थ ह्यदः पदम् // 4 // __ यश्चेति-यः प्रोक्तलक्षणः। क्लिष्टो रागादिदोषमलमलीनः। चित्तणोऽज्ञानोत्पादसमयो जायते / असौ क्लिष्टचित्तकणः। श्रात्मा जीवः। नेति न नवति / कुत एवं ? विरोधत अात्मस्वरूपे विरोधापत्तेः / कथं ? हि यस्मात् / अनन्यविकृतं नास्त्यन्यकृतो विकारो यस्मिन् तन्निर्विकारं रूपमात्मसौन्दर्य स्वजावो वा / अदः स्पष्टं ज्ञायमानं / पदं श्रात्मस्वरूपं वर्तते, क्लिष्टचित्तस्यात्मत्वे तबिरुध्यते / इत्येवंप्रकारेण / अन्वर्थ सार्थकं स्यादित्यर्थः // 04 //