________________ SEGESTAS SESSISSA उष्णस्येति-यथा येन प्रकारेण उष्णस्य सन्तापस्वनावस्य / अग्नेर्तुताशनस्य / योगात् संस्पर्शसंबन्धात् / घृतमाज्यं / उष्णं स्वनावशीतलमपि संतप्तं / इत्येवं / नमो व्रान्तिः स्यात् / तथा तेनैव प्रकारेण / मूर्ताङ्गसंबन्धात् रूपिशरीरसंयोगात् / आत्मा जीवः / मूर्तः साकारः / इत्येवं नमो ब्रान्ति वे जनस्य जवति, न तु परमार्थतस्तथास्ति इत्यर्थः॥३६॥ न रूपं न रसो गन्धो न च स्पर्शो न चाकृतिः।यस्य धर्मो न शब्दो वा तस्य का नाम मूर्तता // 37 // | न रूपमिति–यस्यात्मनः / धर्मः कर्तव्यतास्वजावः / रूपं सुवर्णादिमत्त्वं न जवति / रसस्तिक्तादिमत्त्वं न / गन्धः सुरज्यादिः न / स्पर्श उष्णत्वादिमत्त्वं न च / आकृतिश्चतुरस्राद्याकारवत्त्वं न च / वा शब्दो ध्वनिः कर्तव्यधर्मो न नवति / तस्यात्मनः। नामेति कोमलामंत्रणे हे ना हे सुकोमलमते का किनामिका मूर्तता आकृतिः? न कापीत्यर्थः॥३७॥ दृशादृश्यं हृदाग्राह्यं वाचामपि न गोचरः। स्वप्रकाशं हि यपं तस्य का नाम मूर्तता // 30 // दृशेति-यद्रूपं यस्यात्मनो रूपमाकारः। दृशा चक्षुषा / अदृश्यं अष्टुमशक्यमस्ति / हृदा मनसा / अग्राह्यं ग्रहीतुं ज्ञातुमशक्यं / वाचामपि वाणीनामपि / न गोचरो न विषयः। वाणीनां हि सामर्थ्य तक्षणेष्वेव वर्तते, न तु तद्रूपग्रहणे / हि निश्चयेन / यद्रूपं यस्यात्मनो रूपं निराकारस्वरूपं / स्वप्रकाशं स्वेन आत्मज्ञानेन प्रकाशो यस्येदृशं वर्तते, न तु सूर्याग्न्यादिना परप्रकाश्यं / तस्य प्रोक्तरूपात्मनः / का नाम मूर्तता ? न कापि साकारतेत्यर्थः // 30 // आत्मा सत्यचिदानन्दः सूक्ष्मात्सूक्ष्मः परात्परः / स्पृशत्यपि न मूर्तत्वं तथा चोक्तं परैरपि // 3 // आत्मेति-श्रात्मा जीवः / सत्यचिदानन्दः सत्यं याथार्थ्ययुक्त चित् ज्ञानं तदेवानन्दः सुखाहादो यस्मिन् यस्य वा भ०३३