________________ नुसारिणामिति जावः। अशगनां अशग श्रमायिनस्तेषां / गुणवत्परतंत्राणा गुणवन्तो बहुश्रुतास्तेषां परतंत्रा अधीनतायुक्तास्तेषां / या शुद्धता या मिथ्यात्वकषायादीनां मन्दतापादनरूपा विमलतेत्यर्थः / सा तु क्वापि कस्मिंश्चिदपिदर्शने न विहन्यते न विरुध्यते, तर्हि जिनमतप्रवृत्तानां धर्मप्रियजनानां किमुच्यत इत्यर्थः॥४५॥ पूर्व ज्ञानं दर्शितं संप्रति क्रियां विशेषयन्नाह| विषयात्मानुबन्धैर्हि त्रिधा शुद्धं यथोत्तरम् / ब्रुवते कर्म तत्रायं मुक्त्यर्थ पतनायपि // 46 // विषयेति-हि निश्चयेन / विषयात्मानुबन्धैः विषयोऽग्निजलपर्वतादिस्तस्मिन्मोक्षार्थे पतनादिकरणं तविषयकर्म विष| यक्रिया / कर्मशब्दोऽत्र प्रत्येकमनिसंबध्यते / श्रात्मना स्वयमेव विकहिपतं स्वस्वमतानुसारेण लोकसंझया मिथ्यादृशां यमनियमादिकरणीयं आत्मकर्म / अनुबन्धेन चात्मस्वरूपानुकूलेन शान्तवृत्त्या तत्त्वानुगतं तपःशीलशुलध्यानादिकर|पमनुबन्धकर्म / त्रिधा त्रिप्रकारमुक्तकर्म सर्वत्र खोके वर्तते / तत्र यथोत्तरं शुद्धं उक्तक्रमेण पूर्वस्मात् पूर्वस्मादुत्तरमुत्तरं शुद्ध दोषहानिमपेक्ष्य विमलं नवतीत्यर्थः / तत्राद्यं विषयकर्म / पतनाद्यपि पर्वतादिन्यः प्रपतनादिकमपि / मुक्त्यर्थ ब्रुवते तन्मतानुसारिणः // 46 // वितीयं कर्माह थज्ञानिनां द्वितीयं तु लोकदृष्टया यमादिकम् / तृतीयं शान्तवृत्त्या तत्तत्त्वसंवेदनानुगम् // 4 // अज्ञानिनामिति-दितीयं पूर्वश्लोकोक्तक्रमसंख्यावशात् वितीयमात्मकर्म / खोकदृष्टया लोकः कुप्रवचनं परिव्राज XERRASKUSA KRISLUSAUS