________________ पञ्चमप्रबं. अध्यात्म सारः सटीकः // 17 // शीलेति-शीखसंयमयुक्तस्य शीलं ब्रह्मचर्य समग्रशुखाचारो वा, संयमः सप्तदशविधः षट्वायजीवरक्षणरूपो वा, ताज्यां युक्तः सहितो यस्तस्य / उत्तम प्रधानं / धर्म्य धर्ममयं / ध्यानं ध्यायतो ध्यायमानस्य / प्रौढपुण्यानुबन्धिनी महासुकृतराशेरनुयायिनी उत्तरोत्तरजन्मजन्मसु महासुकृतानुबन्धिनी / ईदृग्रूपां स्वर्गप्राप्तिं महर्धिकदेवत्वप्राप्तिरूपं फलं धर्मध्यानेन खन्यं / प्राहुस्तीर्थकरादयःप्रोचुः / धर्मध्यानान्मुक्तेरनुनवोऽतः स्वर्गप्राप्तिफलं प्रोचुरित्यर्थः॥ 155 // उक्तं धर्मध्यानमथ शुक्लध्यानस्यालंबनान्याहध्यायेच्छुक्लमथ दान्तिमृत्वार्जवमुक्तितिः / बद्मस्थोऽणौ मनो धृत्वा व्यपनीय मनो जिनः // 156 // 3 ध्यायेदिति-अथेति धर्मध्यानकथनानन्तरं / शान्तिमृत्वार्जवमुक्तितिः क्षान्तिः दमा, मृत्वं मानानावो मार्दवमिति यावत्, आर्जवममायित्वं, मुक्तिोजानावान्निःस्पृहत्वं तानिरुक्तालंबनैः / अणौ परमाणुमात्र विषये / मनो मानसं / धृत्वा निरंध्य / उद्मस्थोऽसर्वज्ञो ध्याता / शुक्वं शुक्लध्यानं / ध्यायेत् तस्मिन् प्रलीनो नवेत् / अस्य नावनादेशकालासनानि धर्मध्यानवज्यानि, विशेषाजावानोक्तानि / जिनः सर्वज्ञस्तु / मनो मानसं / व्यपनीय मूलादपि संहृत्य निर्विषयत्वेनामनस्को जूत्वेति यावत् ध्यायतीत्यर्थः // 156 // शुक्लध्यानस्याद्यन्नेदमाहसवितर्क सविचारं सपृथक्त्वं तदादिमम् / नानानयाश्रितं तत्र वितर्कः पूर्वगं श्रुतम् // 157 // सवितर्कमिति-तत्र शुक्लध्याने / आदिमं प्रथमपादं ध्यायेत् / किविशिष्टं ? सवितर्क वक्ष्यमाणरूपवितर्कसहित / ARXASSISLOSSASSIS | // 17 //