SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ खत्वेनानुजूतेति यावत् / ध्यानोपघातिनी ध्यानस्य प्रक्रान्तधर्म्यस्य उपघातिनी विनाशिनी व्याघातकारिणीति यावत / जातु कदापि / न स्यान्न नवेत् / तयाऽवस्थया। निषाः पद्मासनादिनोपविष्टः / वाऽथवा। स्थितः कायोत्सर्गादिनोवं तिष्ठन् / वाऽथवा / शयितो दर्जादिशय्यायां सुप्तः सन् ध्यायेत् ध्यानलयप्राप्तो जवेदित्यर्थः॥११॥ ध्याने देशकालासनानां नियमः किं न क्रियत इत्यारेकायामाहसर्वासु मुनयो देशकालावस्थासु केवलम् / प्राप्तास्तन्नियमो नासो नियता योगसुस्थता // 113 // ता सर्वास्विति-सर्वासु समग्रासु / देशकालावस्थासु उद्देशानुक्रमेण ग्रामवनाद्यहर्निशपद्मासनशयितादिरूपासु / मुनयो योगीश्वराः / केवलं सर्वप्रधानं केवलज्ञानं / प्राप्ता लेजिरे खजन्ते लप्स्यन्ते च / तत्तस्मात्कारणात् / श्रासां देशकालावस्थानां / नियमोऽमुकेनावश्यकता / न जिनमते नास्ति / किं तु योगसुस्थता योगानां स्थैर्यमेव / नियता ध्यानाय निश्चिता जिनैरित्यर्थः॥ 113 // अथ श्लोकष्येनालंबनधारमाह___ वाचना चैव पृछा च परावृत्त्यनुचिन्तने। क्रिया चालंबनानीह सद्धर्मावश्यकानि च // 114 // | वाचनेति-इह ध्यानारोहणे / वाचना सूत्रार्थयोः पठन पाठनं च / एव पादपूरणे / चः पुनरर्थे / पृष्ठा च संशयनिवृत्तये विनिश्चित्यर्थ च सूत्रार्थयोः शंकितस्थानस्य गुर्वादेः सकाशात् पृचनं / तथा परावृत्त्यनुचिन्तने परावृत्तिः पूर्वाधीतस्य पुनः पुनरुषर्तनं अनुचिन्तनं च सूक्ष्मार्थानां मनसा आलोचनं ते / तथा क्रिया च प्रत्युपेक्षणादिका / तथा PASTA AHORASX* *
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy