SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ORGAUGAISAIRRORICA नास्यः प्रसन्नं परमात्मनि प्रमोदप्राप्तं श्रास्यं मुखकमलं यस्य सः। तथा दिशश्च पार्धादिप्रदेशान् / अनवलोकयन् अपश्यन् तत्र चक्षुरक्षिपन्नित्यर्थः // 70 // देहमध्य शिरोग्रीवमवक्रं धारयन् बुधः। दन्तरसंस्पृशन् दन्तान् सुश्लिष्टाधरपद्धवः // 1 // देहेति तथा देहमध्यशिरोग्रीवं देहस्य मध्यः कटिप्रदेशः, शिरश्च मस्तकं, ग्रीवा च कंठकन्दलं, एतेषां समाहारपन्जः। अवकं वक्रत्ववर्जितमेव / धारयन् रक्षन् / तथा दन्तैर्दशनैः। दन्तान् रदान् / असंस्पृशन् उपर्यधःस्थितान् परस्परेणासंखग्नान् धारयन् / तथा सुश्लिष्टाधरपक्षवः सुतरां श्लिष्टौ मिखितौ अधरपक्षवावोष्ठपुटौ यस्य सः / तथा बुधः स्वपरजावविवेचने पंमितः तत्त्वविदित्यर्थः // 1 // थार्तरौझे परित्यज्य धर्ये शुक्ने च दत्तधीः / अप्रमत्तो रतो ध्याने ज्ञानयोगी जवेन्मुनिः // 2 // श्रातरौ इति-वार्तरोने आर्तमार्तध्यानं रौच रोषध्यानं ते / परित्यज्य वर्जयित्वा / धर्ये धर्मध्याने / च पुनः / शुक्के शुक्नध्याने / दत्तधीः दत्ताऽर्पिता धीवुधिर्येन सः / तथाऽप्रमत्तो न प्रमत्तोऽप्रमत्तस्त्यक्तरागादिसर्वप्रमादः। तथा ध्याने प्रोक्तरूपे / रतो लीनः / मुनिः साधुः ज्ञानयोगी प्रोक्तरूपो नवेदित्यथैः // // श्रथ योगाधिकारं निगमयन्नाहकर्मयोगं समन्यस्य ज्ञानयोगसमाहितः / ध्यानयोगं समारुह्य मुक्तियोगं प्रपद्यते // 3 // ॥इति योगाधिकारः॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy