SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रबं. अध्यात्मसारः सटीका // 15 // विद्येति-पंमिता शानिपुरुषाः। विद्याविनयसंपन्ने विद्या च शास्त्रेषु विपत्ता, विनयश्च निवृत्तिपरिणामपूर्वक पूज्यपूजनस्वजावः तान्यां संपन्नः समन्वितस्तस्मिन् / ब्राह्मणे विप्रजातीये / गवि सुरज्यां / इस्तिनि करिणि / शुनि कुकुरे। चैव पादपूरणे / श्वपाके चांमाले च / समदर्शिनस्तुट्यदृष्टयो जवन्ति, न तु ऐश्वर्यादिनेदग्राहिण इत्यर्थः॥ 53 // - अयोकार्थ हेतुत्वेनोपदिशतिइहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोष हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः // 4 // / इहैवेति-येषां योगिनां / मनो हृदयं / साम्ये समताजावे स्थितं वर्तते / तैर्मुनीश्वरैः / इहैवास्मिन्नेव जन्मनि वर्तमा नैरेव / सर्गः समग्रसंसारः / जितो वशीकृतो निस्तीर्ण इति यावत् / कुतः ? हि यतो ब्रह्म सकलोपाधिरहितमात्मस्वरूपं / 6 निर्दोष रागादिदोषविकारैर्वर्जितं निर्विकारमिति यावत् / समं सर्वदैकरूपमस्ति / तस्माघेतोः योगिनः ब्रह्मणि पूर्णब्रह्म स्वरूपे / स्थिता वर्तमानाः सन्ति, अतो मुमुकुणा समतायामेव स्थितिः कार्येति फलितोऽर्थ इत्यर्थः // 4 // पुनरपि हेतुत्वेनैवोपदिशतिन प्रहृष्येत् प्रियं प्राप्य नोहिजेत् प्राप्य चाप्रियम् / स्थिरबुकिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः॥४५॥ नेति-ब्रह्मणि समस्वनावे / स्थितो वर्तमानो योगी / ब्रह्मवित प्रोक्तरूपं ब्रह्म शुखात्मानं वेत्ति जानातीति ब्रह्मवित् / स्थिरबुधिरविचलितमतिरस्त्यतः / असंमूढः सर्वव्यामोहवर्जितः सन् / प्रियमनीष्टं / प्राप्य खब्ध्वा / न नैव / प्रहृष्येत् प्रहर्ष गजेत् / अप्रियमनिष्टं प्राप्य खब्ध्वा / नोविजेत् नविग्नचित्तो न जवेदित्यर्थः // 4 // // 15 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy