________________ पञ्चमप्रबं. अध्यात्म सारः सटीक // 15 // अथ पञ्चभिः श्लोकैः कर्मनिष्कर्ममार्गे वैचित्र्यं दर्शयन्नाहकर्मण्यकर्म वाकर्म कर्मण्यस्मिन्नुले अपि / नोने वा जंगवैचित्र्यादकर्मण्यपि नो मते // 34 // | कर्मणीति-कर्मणि वर्णोच्चारशरीरमुजाविन्यासरूपे क्रियायोगे / अकर्म सद्भूतार्थचिन्तनशुधस्वरूपालंबनचित्तनिरोधरूपं ज्ञानयोगित्वं मतं / वाऽथवा / अकर्म ज्ञानयोगित्वं ज्ञानयोग एवैको नवेदिति यावत् / क ? कर्मणि क्रियायोगे मतं, मनोव्यापारादिप्रवृत्तेः सनावात् / जत्ने कर्मयोगित्वज्ञानयोगित्वे अपि / अस्मिन् कर्मयोगे मते, आवश्यकादि कुर्वन् श्रामेधादियुक्तत्वात् / वाऽथवा / नन्ने उक्तरूपे अपि / नो मते / कुतः 1 नंगवैचित्र्यात् नंगानां तीव्रमन्दादिपरिपामजन्यविकटपानां विचित्रस्यानेकप्रकारस्य नावो वैचित्र्यं तस्मात् / अकर्मणि ज्ञानयोगित्वेऽपि नो मते / अनेन चरमन्नंगसूचनेन प्राक्तनास्त्रयो विकटपा ग्राह्याः, चतुर्थश्च शून्यत्वात्परिहरणीयः / अकर्मणि कर्म मतं, कर्म वाऽकर्मणि मतं, उन्ने अप्यकर्मणि मते, नो मते वा / जावार्थस्तु बहुश्रुतगम्य इत्यर्थः॥३४॥ ___ कमेनैष्कर्म्यवैषम्यमुदासीनो विनावयन् / ज्ञानी न लिप्यते लोगैः पद्मपत्रमिवांजसा // 35 // कर्मेति-ज्ञानी ज्ञानवान् योगी। उदासीनो रागाद्यन्तरालवती माध्यस्थ्यपरिणामी। कर्मनैष्कर्म्यवैषम्यं कर्म कर्मयोगित्वं, निष्कर्मणो जावो नैष्कर्म्य ज्ञानयोगित्वं, सकर्मत्वनिष्कर्मत्वे तयोर्वैषम्यं विसदृशत्वं / विनावयन् विचिन्तयन् / | लोगैः शब्दादिनिः / नैव लिप्यते न बध्यते, सर्वत्र निवृत्तपरिणामयुक्तत्वात् / किमिव / अंजसा जलेन / पद्मपत्रमिव कमलदलमिवेत्यर्थः॥३५॥ // 15 //