________________ अध्यात्म पश्चमप्रव. सटीक // 14 // तदेव स्पष्टीकरोतिज्ञानिनां कर्मयोगेन चित्तशुझिमुपेयुषाम् / निरवद्यप्रवृत्तीनां ज्ञानयोगोचिती ततः // 15 // ज्ञानिनामिति-ततः पूर्वोक्तहेतुतः। निरवद्यप्रवृत्तीनां निरवद्या निर्दोषा प्रवृत्तिर्वर्तना येषां तेषा / तथा कर्मयोगेन [क्रियाप्रवर्तनेन / चित्तशुझिं मनोविमलतां / उपेयुषां प्राप्तानां / ज्ञानिनां ज्ञानवतां / ज्ञानयोगोचिती ज्ञानयोगस्योचिती योग्यता नवति, अतः सर्वथा क्रियावर्जितो ज्ञानयोगो नेति संजवतीत्यर्थः॥२५॥ कर्मयोगोत्तरं ज्ञानयोगो न्याय्य इति परव्यपदेशत आहअत एव हि सुश्रारूचरणस्पर्शनोत्तरम् / फुःपालश्रमणाचारग्रहणं विहितं जिनैः // 16 // श्रत इति-अत एव प्राप्तिक्रमहेतुत एव / हि निश्चयेन सुश्रामचरणस्पर्शनोत्तरं सुष्टु शोजनाः श्राझा गृहिणस्तेषां 8 यच्चरणं देशविरतिचारित्रं तस्य या स्पर्शना परिपालना तस्या उत्तरं परिपालनाकरणानन्तरं / दुःपालश्रमणाचारग्रहणं है। पुःखेन कष्टेन पालनं सेवनं यस्य स चासौ श्रमणानां तपोधनानामाचारो व्रतव्यवहारस्तस्य ग्रहणमङ्गीकारकरणं / जिनस्तीर्थकरैः। विहितं स्वागमे प्रतिपादितं / एष उत्सर्गमार्गो ज्ञेय इत्यर्थः॥२६॥ .. प्रोक्तरीत्या प्राप्तिक्रमोपदेशे किं प्रयोजनमित्याकांक्षायामाहएकोदेशेन संवृत्तं कर्म यत् पौर्वनूमिकम् / दोषोछेदकर तत्स्याज्ञानयोगप्रवृद्धये // 17 // एकेति-यद्यस्मात् / पौर्वजूमिकं पूर्व प्रथमा या नूमिका योगावस्था तस्यां जातं यत्तत्पौर्वजूमिक। कर्म क्रियायोगः। // 14 //