SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ RECER |अतस्मिन् तदयध्यारोपोऽध्यासस्तस्मात् / अन्यथाबुधिरतबाझानं नवति / जनानामिति शेषः। तथा चोकं तदर्थे | कथितं / महात्मना शिष्टेन कपिलेनेत्यर्थः // 11 // यमुक्तं तदेवाह| प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा / अहंकारविमूढात्मा कर्ताहमिति मन्यते // 113 // प्रकृतेरिति-कर्माणि शुनाशुनकर्तव्यानि प्रकृतेः सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्तस्याः सकाशात् समुद्नूतैः गुणैः सत्त्वरजस्तमश्रादिपदार्थैः / क्रियमाणानि विधीयमानानि / सर्वथा सर्वप्रकारेण सन्ति / तथापि अहंकारविमूढात्मा अहंकारणाहंताज्ञानेन विमूढो विशेषेण मूढो जमः आत्मा प्राणी / अहं देवदत्तादिः एतेषां कर्ता विधातास्मि इत्येवं मन्यते जानातीत्यर्थः॥११३ // अश्रात्र प्रतिविधीयतेविचार्यमाणं नो चारु तदेतदपि दर्शनम् / कृतिचैतन्ययोर्व्यक्तं सामानाधिकरण्यतः // 114 // विचार्यमाणमिति–एतदनन्तरोक्तं / दर्शनं सांख्यमतमपि / विचार्यमाणं वक्ष्यमाणप्रकारेण सम्यगालोच्यमानस्वरूपं / चारु समीचीनं / नो नैव जासते / कुतः ? कृतिचैतन्ययोः कृतिर्बुधिः चेतनस्य नावश्चैतन्यं चात्मा तयोः / सामानाधिकरण्यतः समानं तुह्यमेकमिति यावत् अधिकरणमाधारोऽर्थवाच्यैकतेति यावत् तनावः सामानाधिकरण्यं तस्मात्
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy