SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबंध अध्यात्म सार: सटीक: कारिरोगविशेषः तेन विकारिणी विकारवती घूर्णायमाना मन्देति यावत् सा / दृग् दृष्टिः / निर्मलीजावं निर्विकारत्वं अध्यात्मग्रन्थलेषजात् अध्यात्मशास्त्रोक्तलावाञ्जनप्रक्षेपात् अन्यासविशेषात् / एति आगच्छति प्राप्नोति / तस्य मदापहारित्वादित्यर्थः॥२॥ अध्यात्मबोधं विना शास्त्रज्ञानमपि संसारवर्धकमित्याहधनिनां पुत्रदारादि यथा संसारवृक्षये। तथा पांडित्यहप्तानां शास्त्रमध्यात्मवर्जितम् // 13 // धनिनामिति-धनमस्त्येषामिति धनिनस्तेषां धनिनां गृहिणां / यथा येन प्रकारेण ममत्वादिना / पुत्रः सुतो दाराः स्त्रियस्ते आदयो यस्मिंस्तत् पुत्रदारादि / आदिपदात् धनचतुष्पदादिपरिग्रहस्य ग्रहणं / संसारवृधये संसरणं जन्ममरणादिना चतुर्गतिषु परित्रमणं संसारस्तस्य वृद्धिविस्तारस्तस्यै स्यात् / तथा तेनैव प्रकारेण / पामित्यदृप्तानां पंमितस्य नाव: पांडित्यं तेन दृप्ता गर्विताः सानिमानास्तेषां / अध्यात्मवर्जितं अध्यात्मशास्त्रबोधेन रहितं / शास्त्रं बहुतरग्रन्याध्ययनं / तदपि संसारवृधये जवतीत्यर्थः॥२३॥ उपसंहरन्नाहअध्येतव्यं तदध्यात्मशास्त्रं जाव्यं पुनः पुनः। अनुष्ठेयस्तदर्थश्च देयो योग्यस्य कस्यचित् // 11 // . // इत्यध्यात्मसारे माहात्म्याधिकारः॥१॥ अध्येतव्यमिति-तत्तस्मात् पूर्वोक्तहेतुसमूहात् / अध्यात्मशास्त्रं मुमुकुनिरध्येतव्यं पठनीयं / पुनः पुनः जाव्यं //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy