________________ CSERESSAGERIES सनम्वकमवगाहित इति यावत् तस्मात् श्रागमोदधेः। आगमः सिद्धान्तः स एवोदधिः समुपस्तस्मात् / नूयासि प्रचुराणि। गुणरत्नानि गुणाः सम्यग्दर्शनादयो निःस्पृहत्वादयो वा, त एव स्वजातिप्रधानतया रत्नानीव रत्नानि तानि तथा / विबुधैर्विशेषपंमितः किं न प्राप्यन्ते ? अपि तु प्राप्यन्ते खन्यन्त एवेत्यर्थः // 20 // अथाध्यात्मशास्त्ररसस्य निरवधिकत्वमाहरसो नोगावधिः कामे सनदये जोजनावधिः। अध्यात्मशास्त्रसेवायामसौ निरवधिः पुनः॥१॥ रस इति कामे मैथुनसेवने / रसः सुखप्रीत्यादिना मनोविनोदः। जोगावधिः लोगो मैथुनसेवा स एवावधिः पर्य-| न्तोऽर्धघटिकादिकालं यावदेव रसत्वेन तिष्ठति। तथा सन्नदये मोदकपायसादिप्रधानरसवत्यां / नोजनावधिः जेमनं | यावत् विघटिकादिकालं सरसत्वेन तिष्ठति / अध्यात्मशास्त्रसेवायां अध्यात्मशास्त्रस्य सेवनं पठनं विचारणं पौनःपुन्येन तत्स्मरणं च तस्यां पुनः यो रस आविर्तृतसहजानन्दः स निरवधिकः कालनियमरहितो मिथ्यात्वादिक्ष्येण केवलदायित्वात् अनन्त एव नवतीत्यर्थः // 21 // अथाध्यात्मशास्त्रस्य दृष्टिशोधकत्वगुणमाह___ कुतर्कग्रन्थसर्वखगर्वज्वर विकारिणी। एति दृग् निर्मलीनावमध्यात्मग्रन्थन्नेषजात् // 22 // कुतर्केति-कुतर्कग्रन्थसर्वस्वगर्वज्वरविकारिणी कुत्सितः सदोषतया पुष्टः तर्कः श्रुतं न्यायो विचारो वा येषु ते तथोक्ता ये ग्रन्यास्तेषां यत्सर्वस्वं सर्वार्थान्यासजनितबोधप्राप्तिधनं तेन यो गर्वो विद्यामदः स एव ज्वरो दृष्टिसंताप