________________ चतुर्थप्रबं. अध्यात्म सारः सटीक MORCH // 117 // अजीव इति–अजीवो न जीवोऽजीव इत्येवं विधोऽयं शब्दो जनालापः / जीवसत्तानियंत्रितः जीवस्य या सत्ता विद्य- मानता तया नियंत्रितः संबधोऽस्ति, नासति जीवेऽजीवोऽयमिति वक्तुं शक्यते, अतो नायमसतो निषेधः / असतोऽविद्यमानस्य / न निषेधो न निषिध्यते, केनापीति शेषः / कुतः यद्यतः सर्वत्र शास्त्रे संयोगादिनिषेधनात् वदयमाणानां विद्यमानसंयोगादीनामेव निषेधविधानादित्यर्थः॥ 5 // तानेवाहसंयोगः समवायश्च सामान्यं च विशिष्टता / निषिध्यते पदार्थानां त एव न तु सर्वथा // 6 // __संयोग इति--पदार्थानां जीवघटादिवस्तूनां जगति शास्त्रे चान्यत्र / त एव संयोगो विवक्षितस्थाने संबन्धो, यथा नास्ति गृहे देवदत्तः, अत्र देवदत्तस्य गृहण सह संयोगनिषेधः कृतः, न तु देवदत्तस्य गृहस्य वा / तथा समवायः संहतिः, यथा नास्ति खरशिरसि विषाणं, अत्र संहतिमात्रा निरस्ता / तथा सामान्यं च समाननावः, यथा नास्त्यन्यश्चन्धः, अत्र विद्यमानचन्नमसोऽन्यचन्जनिषेधः। तथा विशिष्टता विशेषः, यथा न सन्ति घटप्रमाणानि मुक्ताफलानि, अत्र घटप्रमाणताविशेषणवन्मुक्ताफलानि निषिध्यन्ते / इत्येवं पदार्थानां ते पूर्वोक्तसंयोगादयः / एवोऽवधारणे। तच्चैवं-तमात्रैव संयोगादिमात्रैव / तेषां निषेधो निराकरणं क्रियते, न तु सर्वथा समूलतः पदार्थानावः प्रतिपाद्यते / तथैव नास्त्यात्मेन्जियग्राह्य इत्यनेनेन्द्रियग्राह्यतामात्रस्यैव निषेधः कृतः / तस्य केवलस्य वर्णादिसंयोगसमवायसामान्यविशेषणानां मध्यतः क्वचित् कस्यचिनिषेधः क्रियते ययात्रेन्जियग्राह्यलावस्येत्यर्थः॥६॥ // 117 //