SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ तत्संबन्धेन बन्धनं तदाज्ञापरतंत्रतारूपा नियंत्रणा तस्य हेतुः कारणं या आमुस्मिकप्रवृत्तिस्तस्माचेतोः स्वात्मानं को वि. वेकी अवसादयेत् संकटे पातयेत् ? न कश्चिदित्यर्थः // 3 // पुनःप्रत्योण दर्शयतिसिकिः स्थाएवादिवट्यका संशयादेव चात्मनः / असौ खरविषाणादौ व्यस्तार्थविषयः पुनः॥४॥ सिद्धिरिति-यात्मनो जीवस्य / सिधिनिश्चयः। एवोऽवधारणे / सा चैवं-संशयात् संशयः संदेहः किमयं दृश्यते स्थाणुः पुरुषो वेत्यादिरूपस्तस्मादेव केवलात् तस्य जीवधर्मत्वाधर्मप्रत्यक्षत्वेन धर्मिप्रत्यन एव, तयोः कथंचिदनेदलावत्वात् / व्यक्ता प्रकटा जवति / स्थाएवादिवत् स्थाणुः शाखापत्रादिवर्जितारण्यादिगतस्तरुस्थुडः स आदिर्येषां, आदिशब्दात् बलाकपताकादयः सदृशा ग्राह्याः, तत् / यथा संशयविषयागतयोः स्थाणुपुरुषयोर्मध्यादेकतरोऽस्ति, तथैव जीवसंशयस्य लोके विद्यमानत्वाजीवोऽस्ति / पुनः असौ संशयः / खरविषाणादौ खरश्च विषाणं चेति बन्छः रासजशृंगे ते श्रादिनी यस्मिन् , आदिपदात् गगनारविन्दवन्ध्यापुत्रादयो ग्राह्याः, तस्मिन् / व्यस्तार्थविषयो व्यस्तावसमस्तौ परपस्परविजिन्नत्वेनैकैकावौँ रासजशृंगादिकौ तौ विषयोऽस्तित्वगोचरो यस्य स तथा / अयं नावः-खोके खरोऽस्ति श्रृंगमप्यस्ति इति व्यस्तार्थे संशयो नवति, परं तु खरशीर्षे श्रृंगं नास्तीति तत्र संशयो न लवतीति शेयमित्यर्थः // 4 // . अर्थापत्त्यापि जीवास्तित्वं सिमित्याहअजीव इति शब्दश्च जीवसत्ता नियंत्रितः / असतो न निषेधो यत् संयोगादिनिषेधनात् // 5 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy