________________ चतुर्थपर्व अध्यात्म सारः सटीकः // 113 // अथ सैद्धान्तिक एनं प्रत्युत्तरयतितदेतदर्शनं मिथ्या जीवः प्रत्यक्ष एवं यत् / गुणानां संशयादीनां प्रत्यक्षाणामन्नेदतः // 4 // तदेतदिति-तत्तस्मादयमाणहेतुसमूहात् / एतत्पूर्वोक्तं चार्वाकसंबन्धि / दर्शनं मतं / मिथ्याऽसत् परिहार्य च वर्तते / कुतः यद्यस्मात्कारणात् / यत्तावत्तेनोक्तमात्मा नास्तीति / स तु जीवः प्राणी / प्रत्यक्षः साक्षात् ज्ञायमानोऽस्ति / कुतः ? यतः प्रत्यक्षाणां सर्वेषां स्वानुनवसिखानां / संशयादीनां संशयः सन्देहः किं जीवोऽस्ति न वेत्यादिरूपः स श्रादिर्येषां, आदिशब्दाजान्त्यादयो ग्राह्याः, तेषां / गुणानां जीवधर्माणां / अनेदतो न नेदोऽनेदः परस्परेण धर्मधर्मिणो|रपृथक्त्वं तस्मादनेदतः। धर्मो धर्मी च सर्वथा घटपटवनेदेन न तिष्ठति। ततो धर्मप्रत्यक्षोण धर्मी जीवःप्रत्यद एव ।संशयस्य ज्ञानानिमुखत्वेन ज्ञानरूपत्वात् ,ज्ञानं च जीवे एवास्ति, न त्वजीवेषु, शरीरादिषु मृतकशरीरेण व्यभिचारादित्यर्थः॥७॥ यच्चाहतादिव्यपदेशः शरीरेण नविष्यतीत्युक्तं तदप्यसदित्याहन चाहंप्रत्ययादीनां शरीरस्यैव धर्मता / नेत्रादिग्राह्यतापत्तेनियतं गौरवादिवत // 5 // न चेति-अहंप्रत्ययादीनां अहमस्मीत्येवंरूपो यः प्रत्ययो शेयग्राहकज्ञानं स आदिर्येषां आदिशब्दान्मदीयत्वादयो ग्राह्याः, तेषां / शरीरस्य नूतसमुदायात्मकदेहस्य / एवोऽवधारणे / केवलस्य शरीरस्यैवैकस्य / धर्मता धर्मः स्वन्नावो गुणो वा तनावस्तत्ता / न च नैवास्ति / कुतः? यतस्तेषा शरीरधर्मतायां सत्यां / नियतं निश्चितं / गौरत्वादिवत् शुक्लपीतवर्णमत्त्वादिवत् / गौरवादिवदिति पातु गुरोर्जावो गौरवमुच्चस्थूलदीर्घत्वं तदादि येषां, आदिपदासघुत्वोष्णत्वादीनि // 113 //