SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. शाध्यात्म सार: सटीकः // 11 // | प्राधान्यमिति-चेद्यदि / व्यवहारे निश्चयव्यतिरिक्ते शब्दादिरूपे व्यवहारे प्रवर्तने च / प्राधान्यं मुख्यत्वं ये कुर्वन्ति / तेषां निश्चये श्रात्मनो ध्रौव्यसत्ताविचारे ज्ञानादिरूपे च / तत्प्राधान्यं / कथं नवेत्, न नवेदित्यर्थः। यतः शब्दज्ञानात्मनोः शब्दश्च ज्ञानं चेति ते एवात्मानौ वस्तुस्वरूपजूतौ ययोस्तयोर्षयोः / परार्थस्वार्थते परस्य स्वस्मादितरस्य यथा शब्दापेक्ष्या ज्ञानस्यार्थः कार्य परार्थः, स्वस्य शब्दस्य ज्ञानस्य वार्थः कार्य स्वार्थस्तयो वौ तत्ते जने तुट्ये समार्थे समकार्यकरे इति यावत् नवतः / अयं जावः-शब्दो घटं वक्ति, ज्ञानमपि घटमेव वेत्ति, वस्त्वपि घटोस्ति, शब्दो व्यवहारः, घटज्ञानं घटश्च निश्चयः / ततः सिचं स्वस्वविषये प्योः प्राधान्यमित्यर्थः॥६६॥ फलितार्थमाहप्राधान्याट्यवहारस्य ततस्तछेदका रिणाम् / मिथ्यात्वरूपतैतेषां पदानां परिकीर्तिता // 67 // प्राधान्यादिति-ततः पूर्वोक्तहेतुसमूहतः। व्यवहारस्य पूर्वोक्तरूपस्य / प्राधान्यात् प्रधानस्य नावःप्राधान्यं तस्मात् व्यवहारस्यापि प्रधानजावात् / तच्छेदकारिणां तस्य व्यवहारस्य वेदं विनाशं कुर्वन्ति ये ते तथा तेषां / एतेषां प्राग्दर्शि|तरूपाणां / पदानां नास्त्यात्मेत्यादिवाक्यानां / मिथ्यात्वरूपता मिथ्यात्वजावता / परिकीर्तिता परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् कथितेत्यर्थः॥६७॥ अथ योद्देशस्तथैव निर्देश इति न्यायात्तावन्नास्तिकमतमेव सहोत्तरपक्षमेकविंशत्या श्लोकैराहनास्त्येवात्मेति चार्वाकः प्रत्यक्षानुपलंजतः। अहंताव्यपदेशस्य शरीरेणोपपत्तितः॥ 6 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy